एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः
तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत् अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम्
संप्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा
तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम् यत्रादित्यो वेदमयो नित्यम् एति उपासितुम्
रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः
रूपेण केन सविता समायातीत्य् अनिश्चयात् तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम्
बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः
तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे
प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता
यावत् सागरगा देवी तत्र तीर्थानि कानिचित् संक्षेपेण मयोक्तानि रहस्यानि शुभानि च
वेदे पुराणे ऋषिभिः प्रसिद्धा या गौतमी लोकनमस्कृता च वक्तुं कथं ताम् अतिसुप्रभावाम् अशेषतो नारद कस्य शक्तिः
भक्त्या प्रवृत्तस्य यथाकथंचिन् नैवापराधो ऽस्ति न संशयो ऽत्र तस्माच् च दिङ्मात्रमतिप्रयासात् संसूचितं लोकहिताय तस्याः
कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः
क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम्
सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम् वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम्
आदिमध्यावसाने च उभयोस् तीरयोर् अपि या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते
कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा महेश्वरजटाजूटे स्थिता सैव नमस्कृता
ब्रह्मतेजःप्रभावेण शिवम् आराध्य यत्नतः ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति
आगत्य संगता देवी सर्वतीर्थमयी नृणाम् ईप्सितानां तथा दात्री प्रभावो ऽस्या विशिष्यते
एतस्या नाधिकं मन्ये किंचित् तीर्थं जगत्त्रये अस्याश् चैव प्रभावेण भाव्यं यच् च मनःस्थितम्
अद्याप्य् अस्या हि माहात्म्यं वक्तुं कैश्चिन् न शक्यते भक्तितो वक्ष्यते नित्यं या ब्रह्म परमार्थतः
तस्याः परतरं तीर्थं न स्याद् इति मतिर् मम अन्यतीर्थेन साधर्म्यं न युज्येत कथंचन
श्रुत्वा मद्वाक्यपीयूषैर् गङ्गाया गुणकीर्तनम् सर्वेषां न मतिः कस्मात् तत्रैवोपरतिं गता इति भाति विचित्रं मे मुने खलु जगत्त्रये
धर्मार्थकाममोक्षाणां त्वं वेत्ता चोपदेशकः छन्दांसि सरहस्यानि पुराणस्मृतयो ऽपि च
धर्मशास्त्राणि यच् चान्यत् तव वाक्ये प्रतिष्ठितम् तीर्थानाम् अथ दानानां यज्ञानां तपसां तथा
देवतामन्त्रसेवानाम् अधिकं किं वद प्रभो यद् ब्रूषे भगवन् भक्त्या तथा भाव्यं न चान्यथा
एतं मे संशयं ब्रह्मन् वाक्यात् त्वं छेत्तुम् अर्हसि इष्टं मनोगतं श्रुत्वा तस्माद् विस्मयम् आगतः
शृणु नारद वक्ष्यामि रहस्यं धर्मम् उत्तमम् चतुर्विधानि तीर्थानि तावन्त्य् एव युगानि च