संगमेषु प्रसिद्धेषु नित्यं सप्तसु नारद समुद्रस्य च गङ्गाया नित्यं देवौ प्रतिष्ठितौ
गौतमेश्वर आख्यातो यत्र देवो महेश्वरः नित्यं संनिहितस् तत्र माधवो रमया सह
ब्रह्मेश्वर इति ख्यातो मयैव स्थापितः शिवः लोकानाम् उपकारार्थम् आत्मनः कारणान्तरे
चक्रपाणिर् इति ख्यातः स्तुतो देवैर् मया सह तत्र संनिहितो विष्णुर् देवैः सह मरुद्गणैः
ऐन्द्रतीर्थम् इति ख्यातं तद् एव हयमूर्धकम् हयमूर्धा तत्र विष्णुस् तन्मूर्धनि सुरा अपि सोमतीर्थम् इति ख्यातं यत्र सोमेश्वरः शिवः
इन्द्रस्य सोमश्रवसो देवैश् च ऋषिभिस् तथा प्रार्थितः सोम एवादाव् इन्द्रायेन्दो परिस्रव
सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः देवा आदित्या ये सप्त तेभिः सोमाभिरक्ष न
यत् ते राजञ् छृतं हविस् तेन सोमाभिरक्ष नः अरातीवा मा नस् तारीन् मो च नः किंचनाममद्
ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिर्
कारुर् अहं ततो भिषग् उपलप्रक्षिणी नना नानाधियो वसूयवो ऽनु गा इव तस्थिम
एवम् उक्त्वा च ऋषिभिः सोमं प्राप्य च वज्रिणे तेभ्यो दत्त्वा ततो यज्ञः पूर्णो जातः शतक्रतोः
तत् सोमतीर्थम् आख्यातम् आग्नेयं पुरतस् तु तत् अग्निर् इष्ट्वा महायज्ञैर् माम् आराध्य मनीषितम्
संप्राप्तवान् मत्प्रसादाद् अहं तत्रैव नित्यशः स्थितो लोकोपकारार्थं तत्र विष्णुः शिवस् तथा
तस्माद् आग्नेयम् आख्यातम् आदित्यं तदनन्तरम् यत्रादित्यो वेदमयो नित्यम् एति उपासितुम्
रूपान्तरेण मध्याह्ने द्रष्टुं मां शंकरं हरिम् नमस्कार्यस् तत्र सदा मध्याह्ने सकलो जनः
रूपेण केन सविता समायातीत्य् अनिश्चयात् तस्माद् आदित्यम् आख्यातं बार्हस्पत्यम् अनन्तरम्
बृहस्पतिः सुरैः पूजां तस्मात् तीर्थाद् अवाप ह ईजे च यज्ञान् विविधान् बार्हस्पत्यं ततो विदुः
तत्तीर्थस्मरणाद् एव ग्रहशान्तिर् भविष्यति तस्माद् अप्य् अपरं तीर्थम् इन्द्रगोपे नगोत्तमे
प्रतिष्ठितं महालिङ्गं कस्मिंश्चित् कारणान्तरे हिमालयेन तत् तीर्थम् अद्रितीर्थं तद् उच्यते
तत्र स्नानं च दानं च सर्वकामप्रदं शुभम् एवं सा गौतमी गङ्गा ब्रह्माद्रेश् च विनिःसृता
यावत् सागरगा देवी तत्र तीर्थानि कानिचित् संक्षेपेण मयोक्तानि रहस्यानि शुभानि च
वेदे पुराणे ऋषिभिः प्रसिद्धा या गौतमी लोकनमस्कृता च वक्तुं कथं ताम् अतिसुप्रभावाम् अशेषतो नारद कस्य शक्तिः
भक्त्या प्रवृत्तस्य यथाकथंचिन् नैवापराधो ऽस्ति न संशयो ऽत्र तस्माच् च दिङ्मात्रमतिप्रयासात् संसूचितं लोकहिताय तस्याः
कस् तस्याः प्रतितीर्थं तु प्रभावं वक्तुम् ईश्वरः अपि लक्ष्मीपतिर् विष्णुर् अलं सोमेश्वरः शिवः
क्वचित् कस्मिंश् च तीर्थानि कालयोगे भवन्ति हि गुणवन्ति महाप्राज्ञ गौतमी तु सदा नृणाम्
सर्वत्र सर्वदा पुण्या को न्व् अस्या गुणकीर्तनम् वक्तुं शक्तस् ततस् तस्यै नम इत्य् एव युज्यते
त्रिदैवत्यां सुरेशान गङ्गां ब्रूषे सुरेश्वर ब्राह्मणेनाहृतां पुण्यां जगतः पावनीं शुभाम्
आदिमध्यावसाने च उभयोस् तीरयोर् अपि या व्याप्ता विष्णुनेशेन त्वया च सुरसत्तम पुनः संक्षेपतो ब्रूहि न मे तृप्तिः प्रजायते
कमण्डलुस्थिता पूर्वं ततो विष्णुपदानुगा महेश्वरजटाजूटे स्थिता सैव नमस्कृता
ब्रह्मतेजःप्रभावेण शिवम् आराध्य यत्नतः ततः प्राप्ता गिरिं पुण्यं ततः पूर्वार्णवं प्रति