अन्यथा स्यात् फलं सर्वं तस्य भावानुरूपतः तस्मात् तपो व्रतं दानं जपयज्ञादिकाः क्रियाः
कर्मणस् त्व् अनुरूपेण फलं दास्यन्ति भावतः तस्माद् भावानुरूपेण कर्म वै दास्यते फलम्
भावस् तु त्रिविधो ज्ञेयः सात्त्विको राजसस् तथा तामसस् तु तथा ज्ञेयः फलं कर्मानुसारतः
भावनानुगुणं चेति विचित्रा कर्मणां स्थितिः तस्माद् इच्छानुसारेण भावं कुर्याद् विचक्षणः
पश्चात् कर्मापि कर्तव्यं फलदातापि तद्विधम् फलं ददाति फलिनां फले यदि प्रवर्तते
कर्मकारो न तत्रास्ति कुर्यात् कर्म स्वभावतः तद् एव चोपदानादि सत्त्वादिगुणभेदतः
भावात् प्रारभते तद्वद् भावैः फलम् अवाप्यते धर्मार्थकाममोक्षाणां कर्म चैव हि कारणम्
भावस्थितं भवेत् कर्म मुक्तिदं बन्धकारणम् स्वभावानुगुणं कर्म स्वस्यैवेह परत्र च
फलानि विविधान्य् आशु करोति समतानुगम् एक एव पदार्थो ऽसौ भावैर् भेदः प्रदृश्यते
क्रियते भुज्यते वापि तस्माद् भावो विशिष्यते यथाभावं कर्म कुरु यथेप्सितम् अवाप्स्यसि
एतच् छ्रुत्वा ऋषेर् वाक्यं विश्वामित्रस्य धीमतः तपस् तप्त्वा बहुकालं तामसं भावम् आश्रितः
विश्वरूपः कर्म भीमं चकार सुरभीषणम् पश्यत्सु ऋषिमुख्येषु वार्यमाणो ऽपि नित्यशः
आत्मकोपानुसारेण भीमं कर्म तथाकरोत् भीषणे कुण्डखाते तु भीषणे जातवेदसि
भीषणं रौद्रपुरुषं ध्यात्वात्मानं गुहाशयम् एवं तपन्तम् आलक्ष्य वाग् उवाचाशरीरिणी
जटाजूटं विनात्मानं न च वृत्रो व्यजीयत वृथात्मानं विश्वरूपो जुहुयाज् जातवेदसि
स एवेन्द्रः स वरुणः स च स्यात् सर्वम् एव च त्यक्त्वात्मानं जटामात्रं हुतवान् वृजिनोद्भवः
वृत्र इत्य् उच्यते वेदे स चापि वृजिनो ऽभवत् भीमस्य महिमानं को जानाति जगदीशितुः
सृजत्य् अशेषम् अपि यो न च सङ्गेन लिप्यते विररामेति संकीर्त्य सा वाण्य् एनं मुनीश्वराः
भीमेश्वरं नमस्कृत्य जग्मुः स्वं स्वम् अथाश्रमम् विश्वरूपो महाभीमो भीमकर्मा तथाकृतिः
भीमभावो भीमतनुं ध्यात्वात्मानं जुहाव ह तस्माद् भीमेश्वरो देवः पुराणे परिपठ्यते तत्र स्नानं च दानं च मुक्तिदं नात्र संशयः
इति पठति शृणोति यश् च भक्त्या विबुधपतिं शिवम् अत्र भीमरूपम् जगति विदितम् अशेषपापहारि स्मृतिपदशरणेन मुक्तिदश् च
गोदावरी तावद् अशेषपाप समूहहन्त्री परमार्थदात्री सदैव सर्वत्र विशेषतस् तु यत्राम्बुराशिं समनुप्रविष्टा
स्नात्वा तु तस्मिन् सुकृती शरीरी गोदावरीवारिधिसंगमे यः उद्धृत्य तीव्रान् निरयाद् अशेषात् स पूर्वजान् याति पुरं पुरारेः
वेदान्तवेद्यं यद् उपासितव्यं तद् ब्रह्म साक्षात् खलु भीमनाथः दृष्टे हि तस्मिन् न पुनर् विशन्ति शरीरिणः संस्मृतिम् उग्रदुःखाम्
सा संगता पूर्वम् अपांपतिं तं गङ्गा सुराणाम् अपि वन्दनीया देवैश् च सर्वैर् अनुगम्यमाना संस्तूयमाना मुनिभिर् मरुद्भिः
वसिष्ठजाबालिसयाज्ञवल्क्य क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः शातातपः शौनकदेवरात भृग्वग्निवेश्यात्रिमरीचिमुख्याः
सुधूतपापा मनुगौतमादयः सकौशिकास् तुम्बरुपर्वताद्याः अगस्त्यमार्कण्डसपिप्पलाद्याः सगालवा योगपरायणाश् च
सवामदेवाङ्गिरसो ऽथ भार्गवाः स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः सर्वे पुराणार्थविदो बहुज्ञास् ते गौतमीं देवनदीं तु गत्वा
स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः तां संगतां वीक्ष्य शिवो हरिश् च आत्मानम् आदर्शयतां मुनिभ्यः
आदित्या वसवो रुद्रा मरुतो लोकपालकाः कृताञ्जलिपुटाः सर्वे स्तुवन्ति हरिशंकरौ