ताम् अहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते
न तस्य कोपि त्रातास्ति पापिनो लोकयोर् द्वयोः एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः कृताञ्जलिपुटो गङ्गाम् आहेदं सरितांपतिः
रसातलगतं वारि पृथिव्यां यन् नभस्तले तन् माम् एवात्र विशतु नाहं वक्ष्यामि किंचन
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः एतान् अप्य् अखिलान् अन्यान् भीमान् संधारयाम्य् अहम्
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ममाशक्यं न किमपि विद्यते सचराचरे
महत्य् अभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात्
न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् किं तु त्वं गौरवेणैषाम् अतिरिक्ता ततस् त्व् अहम्
ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव नैकरूपाम् अहं शक्तः संगन्तुं बहुधा यदि
सङ्गम् एष्यसि देवि त्वं संगच्छे ऽहं न चान्यथा गङ्गे समेष्यसि यदि बहुधा तद् विचारये
तम् एवंवादिनं सिन्धुम् अपाम् ईशं तदाब्रवीत् गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम
सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्व् अहम्
अल्पभूता भविष्यामि ततः स्यां तव संगता तथेत्य् उक्त्वा सप्तर्षीणां भार्याभिर् ऋषिभिर् वृतः
आनयाम् आस तां देवी सप्तधा सा व्यभज्यत सा चेयं गौतमी गङ्गा सप्तधा सागरं गता
सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास् ततो ऽभवन् तत्र स्नानं च दानं च श्रवणं पठनं तथा
स्मरणं चापि यद् भक्त्या सर्वकामप्रदं भवेत् नास्माद् अन्यत् परं तीर्थं समुद्राद् भुवनत्रये पापहानौ भुक्तिमुक्तिप्राप्तौ च मनसो मुदे
ऋषिसत्त्रम् इति ख्यातम् ऋषयः सप्त नारद निषेदुस् तपसे यत्र यत्र भीमेश्वरः शिवः
तत्रेदं वृत्तम् आख्यास्ये देवर्षिपितृबृंहितम् शृणु यत्नेन वक्ष्यामि सर्वकामप्रदं शुभम्
सप्तधा व्यभजन् गङ्गाम् ऋषयः सप्त नारद वासिष्ठी दाक्षिणेयी स्याद् वैश्वामित्री तदुत्तरा
वामदेव्य् अपरा ज्ञेया गौतमी मध्यतः शुभा भारद्वाजी स्मृता चान्या आत्रेयी चेत्य् अथापरा
जामदग्नी तथा चान्या व्यपदिष्टा तु सप्तधा तैः सर्वैर् ऋषिभिस् तत्र यष्टुम् इष्टैर् महात्मभिः
निष्पादितं महासत्त्रम् ऋषिभिः पारदर्शिभिः एतस्मिन्न् अन्तरे तत्र देवानां प्रबलो रिपुः
विश्वरूप इति ख्यातो मुनीनां सत्त्रम् अभ्यगात् ब्रह्मचर्येण तपसा तान् आराध्य यथाविधि विनयेनाथ पप्रच्छ ऋषीन् सर्वान् अनुक्रमात्
ध्रुवं सर्वे यथाकामं मम स्वास्थ्येन हेतुना यथा स्याद् बलवान् पुत्रो देवानाम् अपि दुर्धरः यज्ञैर् वा तपसा वापि मुनयो वक्तुम् अर्हथ
तत्र प्राह महाबुद्धिर् विश्वामित्रो महामनाः
कर्मणा तात लभ्यन्ते फलानि विविधानि च त्रयाणां कारणानां च कर्म प्रथमकारणम्
ततश् च कारणं कर्ता ततश् चान्यत् प्रकीर्तितम् उपादानं तथा बीजं न च कर्म विदुर् बुधाः
कर्मणां कारणत्वं च कारणे पुष्कले सति भावाभावौ फले दृष्टौ तस्मात् कर्माश्रितं फलम्
कर्मापि द्विविधं ज्ञेयं क्रियमाणं तथा कृतम् कर्तव्यं क्रियमाणस्य साधनं यद् यद् उच्यते
तद्भावाः कर्मसिद्धौ च उभयत्रापि कारणम् यद् यद् भावयते जन्तुः कर्म कुर्वन् विचक्षणः
तद्भावनानुरूपेण फलनिष्पत्तिर् उच्यते करोति कर्म विधिवद् विना भावनया यदि