शृणुध्वं मुनिशार्दूलाः पुरोर् वंशं महात्मनः विस्तरेणानुपूर्व्या च प्रथमं वदतो मम
पुरोः पुत्रः सुवीरो ऽभून् मनस्युस् तस्य चात्मजः राजा चाभयदो नाम मनस्योर् अभवत् सुतः
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः सुधन्वनः सुबाहुश् च रौद्राश्वस् तस्य चात्मजः
रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च कक्षेयुस्थण्डिलेयुश् च सन्नतेयुस् तथैव च
ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः धनेयुश् च वनेयुश् च पुत्रकाश् च दश स्त्रियः
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा खलदा च ततो विप्रा नलदा सुरसापि च
तथा गोचपला च स्त्रीरत्नकूटा च ता दश ऋषिर् जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः
भद्रायां जनयाम् आस सुतं सोमं यशस्विनम् स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्
तमोभिभूते लोके च प्रभा येन प्रवर्तिता स्वस्ति ते ऽस्त्व् इति चोक्त्वा वै पतमानो दिवाकरः
वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम् अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः
यज्ञेष्व् अत्रेर् बलं चैव देवैर् यस्य प्रतिष्ठितम् स तासु जनयाम् आस पुत्रिकास्व् आत्मकामजान्
दश पुत्रान् महासत्त्वांस् तपस्य् उग्रे रतांस् तथा ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः
स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः कक्षेयोस् तनयास् त्व् आसंस् त्रय एव महारथाः
सभानरश् चाक्षुषश् च परमन्युस् तथैव च सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः
जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतो ऽभवत् जनमेजयस्य राजर्षेर् महाशालो ऽभवत् सुतः
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि महामना नाम सुतो महाशालस्य विश्रुतः
जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः महामनास् तु पुत्रौ द्वौ जनयाम् आस भो द्विजाः
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः
नृगा कृमिर् नवा दर्वा पञ्चमी च दृषद्वती उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः
तपसा चैव महता जाता वृद्धस्य चात्मजाः नृगायास् तु नृगः पुत्रः कृम्यां कृमिर् अजायत
नवायास् तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् दृषद्वत्यास् तु संजज्ञे शिबिर् औशीनरो नृपः
शिबेस् तु शिबयो विप्रा यौधेयास् तु नृगस्य ह नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी
सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत शिबेस् तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः
वृषदर्भः सुवीरश् च केकयो मद्रकस् तथा तेषां जनपदाः स्फीता केकया मद्रकास् तथा
वृषदर्भाः सुवीराश् च तितिक्षोस् तु प्रजास् त्व् इमाः तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भो द्विजाः
उषद्रथो महावीर्यः फेनस् तस्य सुतो ऽभवत् फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः महायोगी स तु बलिर् बभूव नृपतिः पुरा
पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च
पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि