तपश् चरत्सु पृथिवीं प्रचेतःसु महीरुहाः अरक्षमाणाम् आवव्रुर् बभूवाथ प्रजाक्षयः
नाशकन् मारुतो वातुं वृतं खम् अभवद् द्रुमैः दश वर्षसहस्राणि न शेकुश् चेष्टितुं प्रजाः
तद् उपश्रुत्य तपसा युक्ताः सर्वे प्रचेतसः मुखेभ्यो वायुम् अग्निं च ससृजुर् जातमन्यवः
उन्मूलान् अथ वृक्षांस् तु कृत्वा वायुर् अशोषयत् तान् अग्निर् अदहद् घोर एवम् आसीद् द्रुमक्षयः
द्रुमक्षयम् अथो बुद्ध्वा किंचिच् छिष्टेषु शाखिषु उपगम्याब्रवीद् एतांस् तदा सोमः प्रजापतीन्
कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः वृक्षशून्या कृता पृथ्वी शाम्येताम् अग्निमारुतौ
रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी भविष्यं जानता तात धृता गर्भेण वै मया
मारिषा नाम नाम्नैषा वृक्षाणाम् इति निर्मिता भार्या वो ऽस्तु महाभागाः सोमवंशविवर्धिनी
युष्माकं तेजसो ऽर्धेन मम चार्धेन तेजसः अस्याम् उत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः
स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति
ततः सोमस्य वचनाज् जगृहुस् ते प्रचेतसः संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्
दशभ्यस् तु प्रचेतोभ्यो मारिषायां प्रजापतिः दक्षो जज्ञे महातेजाः सोमस्यांशेन भो द्विजाः
अचरांश् च चरांश् चैव द्विपदो ऽथ चतुष्पदः स सृष्ट्वा मनसा दक्षः पश्चाद् असृजत स्त्रियः
ददौ दश स धर्माय कश्यपाय त्रयोदश शिष्टाः सोमाय राज्ञे च नक्षत्राख्या ददौ प्रभुः
तासु देवाः खगा गावो नागा दितिजदानवाः गन्धर्वाप्सरसश् चैव जज्ञिरे ऽन्याश् च जातयः
ततः प्रभृति विप्रेन्द्राः प्रजा मैथुनसंभवाः संकल्पाद् दर्शनात् स्पर्शात् पूर्वेषां प्रोच्यते प्रजा
देवानां दानवानां च गन्धर्वोरगरक्षसाम् संभवस् तु श्रुतो ऽस्माभिर् दक्षस्य च महात्मनः
अङ्गुष्ठाद् ब्रह्मणो जज्ञे दक्षः किल शुभव्रतः वामाङ्गुष्ठात् तथा चैवं तस्य पत्नी व्यजायत
कथं प्राचेतसत्वं स पुनर् लेभे महातपाः एतं नः संशयं सूत व्याख्यातुं त्वम् इहार्हसि दौहित्रश् चैव सोमस्य कथं श्वशुरतां गतः
उत्पत्तिश् च निरोधश् च नित्यं भूतेषु भो द्विजाः ऋषयो ऽत्र न मुह्यन्ति विद्यावन्तश् च ये जनाः
युगे युगे भवन्त्य् एते पुनर् दक्षादयो नृपाः पुनश् चैव निरुध्यन्ते विद्वांस् तत्र न मुह्यति
ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां पूर्वं नासीद् द्विजोत्तमाः तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम्
इमां विसृष्टिं दक्षस्य यो विद्यात् सचराचराम् प्रजावान् आयुर् उत्तीर्णः स्वर्गलोके महीयते
देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्तय
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा यथा ससर्ज भूतानि तथा शृणुत भो द्विजाः
मानसान्य् एव भूतानि पूर्वम् एवासृजत् प्रभुः ऋषीन् देवान् सगन्धर्वान् असुरान् यक्षराक्षसान्
यदास्य मानसी विप्रा न व्यवर्धत वै प्रजा तदा संचिन्त्य धर्मात्मा प्रजाहेतोः प्रजापतिः
स मैथुनेन धर्मेण सिसृक्षुर् विविधाः प्रजाः असिक्नीम् आवहत् पत्नीं वीरणस्य प्रजापतेः
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्यवान्
असिक्न्यां जनयाम् आस दक्ष एव प्रजापतिः तांस् तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः