न किंचिद् अपि यस्यास्ते लोके विषयजं सुखम् लोकद्वये ऽपि न सुखी कितवः कोपि दृश्यते
विभाति च तथा नित्यं लज्जया दग्धमानसः गतधर्मो निरानन्दो ग्रस्तगर्वस् तथाटति
अकैतवी च या वृत्तिः सा प्रशस्ता द्विजन्मनाम् कृषिगोरक्ष्यवाणिज्यम् अपि कुर्यान् न कैतवम्
यस् तु कैतववृत्त्या हि धनम् आहर्तुम् इच्छति धर्मार्थकामाभिजनैः स विमुच्येत पौरुषात्
वेदे ऽपि दूषितं कर्म तव पित्रा तदादृतम् तस्मात् किं कुर्महे वत्स यद् उक्तं ते विधीयते
विधातृविहितं मार्गं को नु वात्येति पण्डितः
एतत् पुरोधसो वाक्यं श्रुत्वा सुमतिर् अब्रवीत्
किं कृत्वा प्रमतिस् तातः पुना राज्यम् अवाप्नुयात्
पुनर् ध्यात्वा मधुच्छन्दाः सुमतिं चेदम् अब्रवीत्
गौतमीं याहि वत्स त्वं तत्र पूजय शंकरम् अदितिं वरुणं विष्णुं ततः पाशाद् विमोक्ष्यते
तथेत्य् उक्त्वा जगामाशु गङ्गां नत्वा जनार्दनम् पूजयाम् आस शंभुं च तपस् तेपे यतव्रतः
सहस्रम् एकं वर्षाणां बद्धं पितरम् आत्मनः मोचयाम् आस देवेभ्यः पुना राज्यम् अवाप सः
शिवेशाभ्यां मुक्तपाशो राज्यं प्राप सुतात् स्वकात् अवाप्य विद्यां गान्धर्वीं प्रियश् चासीच् छतक्रतोः
शांभवं वैष्णवं चैव उर्वशीतीर्थम् एव च ततःप्रभृति तत् तीर्थं कैतवं चेति विश्रुतम्
शिवविष्णुसरिन्मातुप्रसादाद् आप्यते न किम् तत्र स्नानं च दानं च बहुपुण्यफलप्रदम् पापपाशविमोक्षं तु सर्वदुर्गतिनाशनम्
सामुद्रं तीर्थम् आख्यातं सर्वतीर्थफलप्रदम् तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः
विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी लोकानाम् उपकारार्थं प्रायात् पूर्वार्णवं प्रति
आगच्छन्ती देवनदी कमण्डलुधृता मया शिरसा च धृता देवी शंभुना परमात्मना
विष्णुपादात् प्रसूतां तां ब्राह्मणेन महात्मना आनीतां मर्त्यभवनं स्मरणाद् अघनाशनीम्
गुरोर् गुरुतमां सिन्धुर् दृष्ट्वा कृत्यम् अचिन्तयत् या वन्द्या जगताम् ईशा ब्रह्मेशाद्यैर् नमस्कृता
ताम् अहं प्रतिगच्छेयं नो चेत् स्याद् धर्मदूषणम् आगच्छन्तं महात्मानं यो मोहान् नोपतिष्ठते
न तस्य कोपि त्रातास्ति पापिनो लोकयोर् द्वयोः एवं विमृश्य रत्नेशो मूर्तिमान् विनयान्वितः कृताञ्जलिपुटो गङ्गाम् आहेदं सरितांपतिः
रसातलगतं वारि पृथिव्यां यन् नभस्तले तन् माम् एवात्र विशतु नाहं वक्ष्यामि किंचन
मयि रत्नानि पीयूषं पर्वता राक्षसासुराः एतान् अप्य् अखिलान् अन्यान् भीमान् संधारयाम्य् अहम्
ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ममाशक्यं न किमपि विद्यते सचराचरे
महत्य् अभ्यागते कुर्यात् प्रत्युत्थानं न यो मदात् स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात्
न तान् मे बिभ्रतः खेदो विनागस्त्यपराभवात् किं तु त्वं गौरवेणैषाम् अतिरिक्ता ततस् त्व् अहम्
ब्रवीमि देवि गङ्गे मां त्वं साम्यात् संगता भव नैकरूपाम् अहं शक्तः संगन्तुं बहुधा यदि
सङ्गम् एष्यसि देवि त्वं संगच्छे ऽहं न चान्यथा गङ्गे समेष्यसि यदि बहुधा तद् विचारये
तम् एवंवादिनं सिन्धुम् अपाम् ईशं तदाब्रवीत् गङ्गा सा गौतमी देवी कुरु चैतद् वचो मम