जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः तं हसन्तम् अथालक्ष्य हरिः प्रमतिम् अब्रवीत्
देवालये महाबुद्धे मरुद्भिः क्रीडितैर् अलम् दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह
सकषायं हरिवचो निशम्य प्रमतिर् नृपः तथेत्य् उवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे तच् छ्रुत्वा प्रमतेर् वाक्यं सुरराण् नृपम् अब्रवीत्
उर्वश्य् एव पणो ऽस्माकं प्राप्या या निखिलैर् मखैः
एतच् छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे
यद् ब्रवीषि सुरेशान तन् मन्ये ऽहं शतक्रतो प्राहेन्द्रं प्रमतिस् तद्वन् निष्कृत्यै दक्षिणं करम् सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम्
ताव् एवं संविदं कृत्वा देवनायोपतस्थतुः प्रमतिर् जितवांस् तत्र उर्वशीं दैवतस्त्रियम् तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम्
निष्कृत्यै पुनर् अन्यन् मे पश्चाद् दीव्ये त्वया विभो
देवयोग्यम् अथो वज्रं जैत्रं सरथम् उत्तमम् दीव्ये ऽहं तेन नृपते करेणाप्य् अविचारयन्
स गृहीत्वा तदा पाशान् अन्यांश् च मणिभूषितान् जितम् इत्य् अब्रवीच् छक्रं प्रमतिः प्रहसंस् तदा
एतस्मिन्न् अन्तरे प्रायाद् अक्षज्ञस् तत्र नारद विश्वावसुर् इति ख्यातो गन्धर्वाणां महेश्वरः
गन्धर्वविद्यया राजंस् तया दीव्यामहे त्वया तथेत्य् उक्त्वा स नृपतिर् जितम् इत्य् अब्रवीत् तदा
तौ जित्वा नृपतिर् मौर्ख्याद् देवेन्द्रं प्राह कश्मलम्
रणे वा देवने वापि न त्वं जेता कथंचन महेन्द्र सततं तस्माद् अस्मदाराधको भव वद केन प्रकारेण जाता देवेन्द्रता तव
तथा प्राहोर्वशीं गर्वाद् गच्छ कर्मकरी भव उर्वशी प्राह देवेषु यथा वर्ते तथा त्वयि वर्तेय सर्वभावेन न मां धिक्कर्तुम् अर्हसि
ततस् तां प्रमतिः प्राह त्वादृश्यः सन्ति चारिकाः त्वं किं विलज्जसे भद्रे गच्छ कर्मकरी भव
एतच् छ्रुत्वा नृपेणोक्तं गन्धर्वाधिपतिस् तदा चित्रसेन इति ख्यातः सुतो विश्वावसोर् बली
दीव्ये ऽहं वै त्वया राजन् सर्वेणानेन भूपते राज्येन जीवितेनापि मदीयेन तवापि च
तथेत्य् उक्त्वा पुनर् उभौ चित्रसेननृपोत्तमौ दीव्येताम् अभिसंरब्धौ चित्रसेनो ऽजयत् तदा
गान्धर्वैस् तं महापाशैर् बबन्ध नृपतिं तदा चित्रसेनो ऽजयत् सर्वम् उर्वशीमुख्यतः पणैः
राज्यं कोशं बलं चैव यद् अन्यद् वसु किंचन चित्रसेनस्य तज् जातं यद् आसीत् प्रमतेर् धनम्
तस्य पुत्रो बाल एव पुरोधसम् उवाच ह वैश्वामित्रं महाप्राज्ञं मधुच्छन्दसम् ओजसा
किं मे पित्रा कृतं पापं क्व वा बद्धो महामतिः कथम् एष्यति स्वं स्थानं कथं पाशैर् विमोक्ष्यते
सुमतेर् वचनं श्रुत्वा ध्यात्वा स मुनिसत्तमः मधुच्छन्दा जगादेदं प्रमतेर् वर्तनं तदा
देवलोके तव पिता बद्ध आस्ते महामते कैतवैर् बहुदोषैश् च भ्रष्टराज्यो बभूव ह
यो याति कैतवसभां स चापि क्लेशभाग् भवेत् द्यूतमद्यामिषादीनि व्यसनानि नृपात्मज
पापिनाम् एव जायन्ते सदा पापात्मकानि हि एकैकम् अप्य् अनर्थाय पापाय नरकाय च
यानासनाभिलापाद्यैः कृतैः कैतववर्तिभिः कुलीनाः कलुषीभूताः किं पुनः कितवो जनः
कितवस्य तु या जाया तप्यते नित्यम् एव सा स चापि कितवः पापो योषितं वीक्ष्य तप्यते
तां दृष्ट्वा विगतानन्दो नित्यं वदति पापकृत् अहो संसारचक्रे ऽस्मिन् मया तुल्यो न पातकी