वैश्यो वा शूद्रयोनिर् वा सगुणो निर्गुणो ऽपि वा तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति
राज्येन सह देयेयम् इति राजा ह्य् अघोषयत् अहर्निशम् असौ वैश्यः श्रुत्वा घोषम् अथाब्रवीत्
अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम्
तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा
ततः सविस्मयो राजा को भवान् इति चाब्रवीत् वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः
ब्राह्मणानां प्रसादेन धर्मस्य तपसस् तथा दानप्रभावाद् यज्ञैश् च विविधैर् भूरिदक्षिणैः दिव्यौषधिप्रभावेन मम सामर्थ्यम् ईदृशम्
एतद् वैश्यवचः श्रुत्वा विस्मितो ऽभून् महीपतिः
अहो महानुभावो ऽयं प्रायो वृन्दारको भवेत् अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम्
इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान् विहारार्थं गतः स्वैरं परं खेदम् उपागतः
न मित्रेण विना राज्यं न मित्रेण विना सुखम् तम् एव सततं विप्रं चिन्तयन् वैश्यनन्दनः
एतद् एव सुजातानां लक्षणं भुवि देहिनाम् कृपार्द्रं यन् मनो नित्यं तेषाम् अप्य् अहितेषु हि
महानृपो वनं प्रायात् स राजा मणिकुण्डलः तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम्
हृतस्वं द्यूतकैः पापैर् अपश्यन् मणिकुण्डलः तम् आदाय द्विजं मित्रं पूजयाम् आस धर्मवित्
धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् स्नापयाम् आस गङ्गायां तं सर्वाघनिवृत्तये
तेन विप्रेण सर्वैस् तैः स्वकीयैर् गोत्रजैर् वृतः वैश्यैः स्वदेशसंभूतैर् ब्राह्मणस्य तु बान्धवैः
वृद्धकौशिकमुख्यैश् च तस्मिन् योगेश्वरान्तिके यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गम् उपेयिवान्
ततः प्रभृति तत् तीर्थं मृतसंजीवनं विदुः चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् मनःप्रसादजननं सर्वदुर्भावनाशनम्
उर्वशीतीर्थम् आख्यातम् अश्वमेधफलप्रदम् स्नानदानमहादेववासुदेवार्चनादिभिः
महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः प्रमतिर् नाम राजासीत् सार्वभौमः प्रतापवान्
रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर् वृतम् तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद
जहासेन्द्रं पाशहस्तं प्रमतिः क्षत्रियर्षभः तं हसन्तम् अथालक्ष्य हरिः प्रमतिम् अब्रवीत्
देवालये महाबुद्धे मरुद्भिः क्रीडितैर् अलम् दिशो जित्वा दिवं प्राप्तः कुरु क्रीडां मया सह
सकषायं हरिवचो निशम्य प्रमतिर् नृपः तथेत्य् उवाच देवेन्द्रं निष्कृतिं कां तु मन्यसे तच् छ्रुत्वा प्रमतेर् वाक्यं सुरराण् नृपम् अब्रवीत्
उर्वश्य् एव पणो ऽस्माकं प्राप्या या निखिलैर् मखैः
एतच् छ्रुत्वेन्द्रवचनं प्रमतिः प्राह गर्वितः उर्वशीं निष्कृतिं मन्ये त्वं राजन् किं नु मन्यसे
यद् ब्रवीषि सुरेशान तन् मन्ये ऽहं शतक्रतो प्राहेन्द्रं प्रमतिस् तद्वन् निष्कृत्यै दक्षिणं करम् सवर्म सशरं धर्म्यं देहि दीव्यामहे वयम्
ताव् एवं संविदं कृत्वा देवनायोपतस्थतुः प्रमतिर् जितवांस् तत्र उर्वशीं दैवतस्त्रियम् तां जित्वा प्रमतिः प्राह संरम्भात् तं शतक्रतुम्
निष्कृत्यै पुनर् अन्यन् मे पश्चाद् दीव्ये त्वया विभो
देवयोग्यम् अथो वज्रं जैत्रं सरथम् उत्तमम् दीव्ये ऽहं तेन नृपते करेणाप्य् अविचारयन्
स गृहीत्वा तदा पाशान् अन्यांश् च मणिभूषितान् जितम् इत्य् अब्रवीच् छक्रं प्रमतिः प्रहसंस् तदा