गच्छतस् तस्य वेगेन विशल्यकरणी पुनः अपतद् गौतमीतीरे यत्र योगेश्वरो हरिः
ताम् ओषधीं मम पितर् दर्शयाशु विलम्ब मा परार्तिशमनाद् अन्यच् छ्रेयो न भुवनत्रये
विभीषणस् तथेत्य् उक्त्वा तां पुत्रस्याप्य् अदर्शयत् इषे त्वेत्य् अस्य वृक्षस्य शाखां चिच्छेद तत्सुतः वैश्यस्य चापि वै प्रीत्या सन्तः परहिते रताः
यत्रापतन् नगे चास्मिन् स वृक्षस् तु प्रतापवान् तस्य शाखां समादाय हृदये ऽस्य निवेशय तत्स्पृष्टमात्र एवासौ स्वकं रूपम् अवाप्नुयात्
एतच् छ्रुत्वा पितुर् वाक्यं वैभीषणिर् उदारधीः तथा चकार वै सम्यक् काष्ठखण्डं न्यवेशयत्
हृदये स तु वैश्यो ऽपि सचक्षुः सकरो ऽभवत् मणिमन्त्रौषधीनां हि वीर्यं को ऽपि न बुध्यते
तद् एव काष्ठम् आदाय धर्मम् एवानुसंस्मरन् स्नात्वा तु गौतमीं गङ्गां तथा योगेश्वरं हरिम्
नमस्कृत्वा पुनर् अगात् काष्ठखण्डेन वैश्यकः परिभ्रमन् नृपपुरं महापुरम् इति श्रुतम्
महाराज इति ख्यातस् तत्र राजा महाबलः तस्य नास्ति सुतः कश्चित् पुत्रिका नष्टलोचना
सैव तस्य सुता पुत्रस् तस्यापि व्रतम् ईदृशम् देवो वा दानवो वापि ब्राह्मणः क्षत्रियो भवेत्
वैश्यो वा शूद्रयोनिर् वा सगुणो निर्गुणो ऽपि वा तस्मै देया इयं पुत्री यो नेत्रे आहरिष्यति
राज्येन सह देयेयम् इति राजा ह्य् अघोषयत् अहर्निशम् असौ वैश्यः श्रुत्वा घोषम् अथाब्रवीत्
अहं नेत्रे आहरिष्ये राजपुत्र्या असंशयम्
तं वैश्यं तरसादाय महाराज्ञे न्यवेदयत् तत्काष्ठस्पर्शमात्रेण सनेत्राभून् नृपात्मजा
ततः सविस्मयो राजा को भवान् इति चाब्रवीत् वैश्यो राज्ञे यथावृत्तं न्यवेदयद् अशेषतः
ब्राह्मणानां प्रसादेन धर्मस्य तपसस् तथा दानप्रभावाद् यज्ञैश् च विविधैर् भूरिदक्षिणैः दिव्यौषधिप्रभावेन मम सामर्थ्यम् ईदृशम्
एतद् वैश्यवचः श्रुत्वा विस्मितो ऽभून् महीपतिः
अहो महानुभावो ऽयं प्रायो वृन्दारको भवेत् अन्यथैतादृग् अन्यस्य सामर्थ्यं दृश्यते कथम् तस्माद् अस्मै तु तां कन्यां प्रदास्ये राज्यपूर्विकाम्
इति संकल्प्य मनसि कन्यां राज्यं च दत्तवान् विहारार्थं गतः स्वैरं परं खेदम् उपागतः
न मित्रेण विना राज्यं न मित्रेण विना सुखम् तम् एव सततं विप्रं चिन्तयन् वैश्यनन्दनः
एतद् एव सुजातानां लक्षणं भुवि देहिनाम् कृपार्द्रं यन् मनो नित्यं तेषाम् अप्य् अहितेषु हि
महानृपो वनं प्रायात् स राजा मणिकुण्डलः तस्मिञ् शासति राज्यं तु कदाचिद् गौतमं द्विजम्
हृतस्वं द्यूतकैः पापैर् अपश्यन् मणिकुण्डलः तम् आदाय द्विजं मित्रं पूजयाम् आस धर्मवित्
धर्माणां तु प्रभावं तं तस्मै सर्वं न्यवेदयत् स्नापयाम् आस गङ्गायां तं सर्वाघनिवृत्तये
तेन विप्रेण सर्वैस् तैः स्वकीयैर् गोत्रजैर् वृतः वैश्यैः स्वदेशसंभूतैर् ब्राह्मणस्य तु बान्धवैः
वृद्धकौशिकमुख्यैश् च तस्मिन् योगेश्वरान्तिके यज्ञान् इष्ट्वा सुरान् पूज्य ततः स्वर्गम् उपेयिवान्
ततः प्रभृति तत् तीर्थं मृतसंजीवनं विदुः चक्षुस्तीर्थं सयोगेशं स्मरणाद् अपि पुण्यदम् मनःप्रसादजननं सर्वदुर्भावनाशनम्
उर्वशीतीर्थम् आख्यातम् अश्वमेधफलप्रदम् स्नानदानमहादेववासुदेवार्चनादिभिः
महेश्वरो यत्र देवो यत्र शार्ङ्गधरो हरिः प्रमतिर् नाम राजासीत् सार्वभौमः प्रतापवान्
रिपूञ् जित्वा जगामाशु इन्द्रलोकं सुरैर् वृतम् तत्रापश्यत् सुरपतिं मरुद्भिः सह नारद