यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम्
एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम् कालेन महता चायं चचार विपुलं तपः
भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान्
तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
यदोस् तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः
सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः ययातिचरितं नित्यम् इदं शृण्वन् द्विजोत्तमाः
पुरोर् वंशं वयं सूत श्रोतुम् इच्छाम तत्त्वतः द्रुह्यस्यानोर् यदोश् चैव तुर्वसोश् च पृथक् पृथक्
शृणुध्वं मुनिशार्दूलाः पुरोर् वंशं महात्मनः विस्तरेणानुपूर्व्या च प्रथमं वदतो मम
पुरोः पुत्रः सुवीरो ऽभून् मनस्युस् तस्य चात्मजः राजा चाभयदो नाम मनस्योर् अभवत् सुतः
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः सुधन्वनः सुबाहुश् च रौद्राश्वस् तस्य चात्मजः
रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च कक्षेयुस्थण्डिलेयुश् च सन्नतेयुस् तथैव च
ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः धनेयुश् च वनेयुश् च पुत्रकाश् च दश स्त्रियः
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा खलदा च ततो विप्रा नलदा सुरसापि च
तथा गोचपला च स्त्रीरत्नकूटा च ता दश ऋषिर् जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः
भद्रायां जनयाम् आस सुतं सोमं यशस्विनम् स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्
तमोभिभूते लोके च प्रभा येन प्रवर्तिता स्वस्ति ते ऽस्त्व् इति चोक्त्वा वै पतमानो दिवाकरः
वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम् अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः
यज्ञेष्व् अत्रेर् बलं चैव देवैर् यस्य प्रतिष्ठितम् स तासु जनयाम् आस पुत्रिकास्व् आत्मकामजान्
दश पुत्रान् महासत्त्वांस् तपस्य् उग्रे रतांस् तथा ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः
स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः कक्षेयोस् तनयास् त्व् आसंस् त्रय एव महारथाः
सभानरश् चाक्षुषश् च परमन्युस् तथैव च सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः
जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतो ऽभवत् जनमेजयस्य राजर्षेर् महाशालो ऽभवत् सुतः
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि महामना नाम सुतो महाशालस्य विश्रुतः
जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः महामनास् तु पुत्रौ द्वौ जनयाम् आस भो द्विजाः
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः
नृगा कृमिर् नवा दर्वा पञ्चमी च दृषद्वती उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः