जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे मयैव विजितो धर्मो यथेष्टचरणात्मना
तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान्
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु तथैव तान् सखे मन्ये येषां धर्मो न विद्यते
चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते पश्चाद् अर्थश् च कामश् च स धर्मो मयि तिष्ठति कथं ब्रूषे द्विजश्रेष्ठ मया विजितम् इत्य् अदः
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः तथेति मन्यते वैश्यस् तौ गत्वा पुनर् ऊचतुः
पूर्ववल् लौकिकान् गत्वा जितम् इत्य् अब्रवीद् द्विजः करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनम् अब्रवीत्
धर्मम् एव परं मन्ये प्राणैः कण्ठगतैर् अपि माता पिता सुहृद् बन्धुर् धर्म एव शरीरिणाम्
एवं विवदमानौ ताव् अर्थवान् ब्राह्मणो ऽभवत् विमुक्तो वैश्यकस् तत्र बाहुभ्यां च धनेन च
एवं भ्रमन्तौ संप्राप्तौ गङ्गां योगेश्वरं हरिम् यदृच्छया मुनिश्रेष्ठ मिथस् ताव् ऊचतुः पुनः
वैश्यो गङ्गां तु योगेशं धर्मम् एव प्रशंसति अतिकोपाद् द्विजो वैश्यम् आक्षिपन् पुनर् अब्रवीत्
गतं धनं करौ छिन्नाव् अवशिष्टो शुभिर् भवान् त्वम् अन्यथा यदि ब्रूष आहरिष्ये ऽसिना शिरः
विहस्य पुनर् आहेदं वैश्यो गौतमम् अञ्जसा
धर्मम् एव परं मन्ये यथेच्छसि तथा कुरु ब्राह्मणांश् च गुरून् देवान् वेदान् धर्मं जनार्दनम्
यस् तु निन्दयते पापो नासौ स्पृश्यो ऽथ पापकृत् उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः
ततः प्राह स कोपेन धर्मं यद्य् अनुशंससि आवयोः प्राणयोर् अत्र पणः स्याद् इति वै मुने
एवम् उक्ते गौतमेन तथेत्य् आह वणिक् तदा पुनर् अप्य् ऊचतुर् उभौ लोकांल् लोकास् तथोचिरे
योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे तं निपात्य विशं विप्रश् चक्षुर् उत्पाट्य चाब्रवीत्
गतो ऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया गतं धनं गतं चक्षुश् छेदितौ करपल्लवौ पृष्टो ऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे
तस्मिन् प्रयाते वैश्यो ऽसौ चिन्तयाम् आस चेतसि हा कष्टं मे किम् अभवद् धर्मैकमनसो हरे
स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतबाहुकः गतनेत्रः शुचं प्राप्तो धर्मम् एवानुसंस्मरन्
एवं बहुविधां चिन्तां कुर्वन्न् आस्ते महीतले निश्चेष्टो ऽथ निरुत्साहः पतितः शोकसागरे
दिनावसाने शर्वर्याम् उदिते चन्द्रमण्डले एकादश्यां शुक्लपक्षे तत्रायाति विभीषणः
स तु योगेश्वरं देवं पूजयित्वा यथाविधि स्नात्वा तु गौतमीं गङ्गां सपुत्रो राक्षसैर् वृतः
विभीषणस्य हि सुतो विभीषण इवापरः वैभीषणिर् इति ख्यातस् तम् अपश्यद् उवाच ह
वैश्यस्य वचनं श्रुत्वा यथावृत्तं स धर्मवित् पित्रे निवेदयाम् आस लङ्केशाय महात्मने स तु लङ्केश्वरः प्राह पुत्रं प्रीत्या गुणाकरम्
श्रीमान् रामो मम गुरुस् तस्य मान्यः सखा मम हनुमान् इति विख्यातस् तेनानीतो गिरिर् महान्
पुरा कार्यान्तरे प्राप्ते सर्वौषध्याश्रयो ऽचलः जाते कार्ये तम् आदाय हिमवन्तम् अथागमत्
विशल्यकरणी चेति मृतसंजीवनीति च तदानीय महाबुद्धी रामायाक्लिष्टकर्मणे
निवेदयित्वा तत् साध्यं तस्मिन् वृत्ते समागतः पुनर् गिरिं समादाय आगच्छद् देवपर्वतम्
ताम् आनीयास्य हृदये निवेशय हरिं स्मरन् ततः प्राप्स्यत्य् अयं सर्वम् अपेक्षितम् उदारधीः