एवं चिन्तयमानो ऽसौ गौतमः प्रहसन्न् इव मणिकुण्डलम् आहेदम् अधर्माद् एव जन्तवः
वृद्धिं सुखम् अभीष्टानि प्राप्नुवन्ति न संशयः धर्मिष्ठाः प्राणिनो लोके दृश्यन्ते दुःखभागिनः
तस्माद् धर्मेण किं तेन दुःखैकफलहेतुना
नेत्य् उवाच ततो वैश्यः सुखं धर्मे प्रतिष्ठितम् पापे दुःखं भयं शोको दारिद्र्यं क्लेश एव च यतो धर्मस् ततो मुक्तिः स्वधर्मः किं विनश्यति
एवं विवदतोस् तत्र संपरायस् तयोर् अभूत् यस्य पक्षो भवेज् ज्यायान् स परार्थम् अवाप्नुयात्
पृच्छावः कस्य प्राबल्यं धर्मिणो वाप्य् अधर्मिणः वेदात् तु लौकिकं ज्येष्ठं लोके धर्मात् सुखं भवेत्
एवं विवदमानौ ताव् ऊचतुः सकलाञ् जनान् धर्मस्य वाप्य् अधर्मस्य प्राबल्यम् अनयोर् भुवि
तद् वदन्तु यथावृत्तम् एवम् ऊचतुर् ओजसा एवं तत्रोचिरे केचिद् ये धर्मेणानुवर्तिनः
तैर् दुःखम् अनुभूयते पापिष्ठाः सुखिनो जनाः संपराये धनं सर्वं जितं विप्रे न्यवेदयत्
मणिमान् धर्मविच्छ्रेष्ठः पुनर् धर्मं प्रशंसति मणिमन्तं द्विजः प्राह किं धर्मम् अनुशंससि तथेति चेत्य् आह वैश्यो ब्राह्मणः पुनर् अब्रवीत्
जितं मया धनं वैश्य निर्लज्जः किं नु भाषसे मयैव विजितो धर्मो यथेष्टचरणात्मना
तद् ब्राह्मणवचः श्रुत्वा वैश्यः सस्मित ऊचिवान्
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु तथैव तान् सखे मन्ये येषां धर्मो न विद्यते
चतुर्णां पुरुषार्थानां धर्मः प्रथम उच्यते पश्चाद् अर्थश् च कामश् च स धर्मो मयि तिष्ठति कथं ब्रूषे द्विजश्रेष्ठ मया विजितम् इत्य् अदः
द्विजो वैश्यं पुनः प्राह हस्ताभ्यां जायतां पणः तथेति मन्यते वैश्यस् तौ गत्वा पुनर् ऊचतुः
पूर्ववल् लौकिकान् गत्वा जितम् इत्य् अब्रवीद् द्विजः करौ छित्त्वा ततः प्राह कथं धर्मं तु मन्यसे आक्षिप्तो ब्राह्मणेनैवं वैश्यो वचनम् अब्रवीत्
धर्मम् एव परं मन्ये प्राणैः कण्ठगतैर् अपि माता पिता सुहृद् बन्धुर् धर्म एव शरीरिणाम्
एवं विवदमानौ ताव् अर्थवान् ब्राह्मणो ऽभवत् विमुक्तो वैश्यकस् तत्र बाहुभ्यां च धनेन च
एवं भ्रमन्तौ संप्राप्तौ गङ्गां योगेश्वरं हरिम् यदृच्छया मुनिश्रेष्ठ मिथस् ताव् ऊचतुः पुनः
वैश्यो गङ्गां तु योगेशं धर्मम् एव प्रशंसति अतिकोपाद् द्विजो वैश्यम् आक्षिपन् पुनर् अब्रवीत्
गतं धनं करौ छिन्नाव् अवशिष्टो शुभिर् भवान् त्वम् अन्यथा यदि ब्रूष आहरिष्ये ऽसिना शिरः
विहस्य पुनर् आहेदं वैश्यो गौतमम् अञ्जसा
धर्मम् एव परं मन्ये यथेच्छसि तथा कुरु ब्राह्मणांश् च गुरून् देवान् वेदान् धर्मं जनार्दनम्
यस् तु निन्दयते पापो नासौ स्पृश्यो ऽथ पापकृत् उपेक्षणीयो दुर्वृत्तः पापात्मा धर्मदूषकः
ततः प्राह स कोपेन धर्मं यद्य् अनुशंससि आवयोः प्राणयोर् अत्र पणः स्याद् इति वै मुने
एवम् उक्ते गौतमेन तथेत्य् आह वणिक् तदा पुनर् अप्य् ऊचतुर् उभौ लोकांल् लोकास् तथोचिरे
योगेश्वरस्य पुरतो गौतम्या दक्षिणे तटे तं निपात्य विशं विप्रश् चक्षुर् उत्पाट्य चाब्रवीत्
गतो ऽसीमां दशां वैश्य नित्यं धर्मप्रशंसया गतं धनं गतं चक्षुश् छेदितौ करपल्लवौ पृष्टो ऽसि मित्र गच्छामि मैवं ब्रूयाः कथान्तरे
तस्मिन् प्रयाते वैश्यो ऽसौ चिन्तयाम् आस चेतसि हा कष्टं मे किम् अभवद् धर्मैकमनसो हरे
स कुण्डलो वणिक्श्रेष्ठो निर्धनो गतबाहुकः गतनेत्रः शुचं प्राप्तो धर्मम् एवानुसंस्मरन्