स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः मुहुर् निनिन्द चात्मानं मयि जीवत्य् अभूद् इदम्
कष्टम् आपतितं कीदृग् अहो दुर्विधिवैशसात् तत् कर्म तस्य संवीक्ष्य महादेवो ऽतिविस्मितः ततः प्रोवाच भगवान् वेदं वेदविदां वरम्
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् त्वं तु मृद्भिः कुशैर् वार्भिर् मूर्धानं स्पृष्टवान् असि
अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः भक्तिः प्रेमाथवा शक्तिर् विचारो यत्र विद्यते तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम
वरेण च्छन्दयाम् आस व्याधं देवो महेश्वरः व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत्
तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थम् उच्यताम् सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम्
तथेत्य् उवाच देवेशस् ततस् तत् तीर्थम् उत्तमम् भिल्लतीर्थं समस्ताघसंघविच्छेदकारणम्
श्रीमहादेवचरणमहाभक्तिविधायकम् अभवत् स्नानदानाद्यैर् भुक्तिमुक्तिप्रदायकम् वेदस्यापि वरान् प्रादाच् छिवो नानाविधान् बहून्
चक्षुस्तीर्थम् इति ख्यातं रूपसौभाग्यदायकम् यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे
पुरं भौवनम् आख्यातं गिरिमूर्ध्न्य् अभिधीयते यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः
तस्मिन् पुरवरे कश्चिद् ब्राह्मणो वृद्धकौशिकः तत्पुत्रो गौतम इति ख्यातो वेदविदुत्तमः
तस्य मातुर् मनोदोषाद् विपरीतो ऽभवद् द्विजः सखा तस्य वणिक् कश्चिन् मणिकुण्डल उच्यते
तेन सख्यं द्विजस्यासीद् विषमं द्विजवैश्ययोः श्रीमद्दरिद्रयोर् नित्यं परस्परहितैषिणोः
कदाचिद् गौतमो वैश्यं वित्तेशं मणिकुण्डलम् प्राहेदं वचनं प्रीत्या रहः स्थित्वा पुनः पुनः
गच्छामो धनम् आदातुं पर्वतान् उदधीन् अपि यौवनं तद् वृथा ज्ञेयं विना सौख्यानुकूल्यतः धनं विना तत् कथं स्याद् अहो धिङ् निर्धनं नरम्
कुण्डलो द्विजम् आहेदं मत्पित्रोपार्जितं धनम् बह्व् अस्ति किं धनेनाद्य करिष्ये द्विजसत्तम द्विजः पुनर् उवाचेदं मणिकुण्डलम् ओजसा
धर्मार्थज्ञानकामानां को नु तृप्तः प्रशस्यते उत्कर्षप्राप्तिर् एवैषां सखे श्लाघ्या शरीरिणाम्
स्वेनैव व्यवसायेन धन्या जीवन्ति जन्तवः परदत्तार्थसंतुष्टाः कष्टजीविन एव ते
स पुत्रः शस्यते लोके पितृभिश् चाभिनन्द्यते यः पैत्र्यम् अभिलिप्सेत न वाचापि तु कुण्डल
स्वबाहुबलम् आश्रित्य यो ऽर्थान् अर्जयते सुतः स कृतार्थो भवेल् लोके पैत्र्यं वित्तं न तु स्पृशेत्
स्वयम् आर्ज्य सुतो वित्तं पित्रे दास्यति बन्धवे तं तु पुत्रं विजानीयाद् इतरो योनिकीटकः
एतच् छ्रुत्वा तु तद् वाक्यं ब्राह्मणस्याभिलाषिणः तथेति मत्वा तद्वाक्यं रत्नान्य् आदाय सत्वरः
आत्मकीयानि वित्तानि गौतमाय न्यवेदयत् धनेनैतेन देशांश् च परिभ्रम्य यथासुखम्
धनान्य् आदाय वित्तानि पुनर् एष्यामहे गृहम् सत्यम् एव वणिग् वक्ति स तु विप्रः प्रतारकः
पापात्मा पापचित्तं च न बुबोध वणिग् द्विजम् तौ परस्परम् आमन्त्र्य मातापित्रोर् अजानतोः
देशाद् देशान्तरं यातौ धनार्थं तौ वणिग्द्विजौ वणिग्घस्तस्थितं वित्तं ब्राह्मणो हर्तुम् इच्छति
येन केनाप्य् उपायेन तद् धनं हि समाहरे अहो पृथिव्यां रम्याणि नगराणि सहस्रशः
इष्टप्रदात्र्यः कामस्य देवता इव योषितः मनोहरास् तत्र तत्र सन्ति किं क्रियते मया
धनम् आहृत्य यत्नेन योषिद्भ्यो यदि दीयते भुज्यन्ते तास् ततो नित्यं सफलं जीवितं हि तत्
नृत्यगीतरतो नित्यं पण्यस्त्रीभिर् अलंकृतः भोक्ष्ये कथं तु तद् वित्तं वैश्यान् मद्धस्तम् आगतम्