तं पश्येयम् अहं पापं पूजाकर्तारम् ईश्वरे एतस्मिन्न् अन्तरे प्रायाद् व्याधो देवं यथा पुरा
नित्यवत् पूजयन्तं तम् आदिकेशस् तदाब्रवीत्
भो भो व्याध महाबुद्धे श्रान्तो ऽसीति पुनः पुनः चिराय कथम् आयातस् त्वां विना तात दुःखितः न विन्दामि सुखं किंचित् समाश्वसिहि पुत्रक
तम् एवंवादिनं देवं वेदः श्रुत्वा विलोक्य तु चुकोप विस्मयाविष्टो न च किंचिद् उवाच ह
व्याधश् च नित्यवत् पूजां कृत्वा स्वभवनं ययौ वेदश् च कुपितो भूत्वा आगत्येशम् उवाच ह
अयं व्याधः पापरतः क्रियाज्ञानविवर्जितः प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु
हीनजातिर् अकिंचिज्ज्ञो गुरुक्रमविवर्जितः सदानुचितकारी चानिर्जिताखिलगोगणः
तस्यात्मानं दर्शितवान् न मां किंचन वक्ष्यसि पूजां मन्त्रविधानेन करोमीश यतव्रतः
त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः व्याधो मांसेन दुष्टेन पूजां तव करोत्य् असौ
तस्य प्रसन्नो भगवान् न ममेति महाद्भुतम् शास्तिम् अस्य करिष्यामि भिल्लस्य ह्य् अपकारिणः
मृदोः कोपि भवेत् प्रीतः कोपि तद्वद् दुरात्मनः तस्माद् अहं मूर्ध्नि शिलां पातयेयम् असंशयम्
इत्य् उक्तवति वै वेदे विहस्येशो ऽब्रवीद् इदम्
श्वः प्रतीक्षस्व पश्चान् मे शिलां पातय मूर्धनि
तथेत्य् उक्त्वा स वेदो ऽपि शिलां संत्यज्य बाहुना उपसंहृत्य तं कोपं श्वः करोमीत्य् उवाच ह
ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च वेदो ऽपि नित्यवत् पूजां कुर्वन् पश्यति मस्तके
लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् वेदः स विस्मितो भूत्वा किम् इदं लिङ्गमूर्धनि
महोत्पातो भवेत् कस्य सूचयेद् इत्य् अचिन्तयत् मृद्भिश् च गोमयेनापि कुशैस् तं गाङ्गवारिभिः
प्रक्षालयित्वा तां पूजां कृतवान् नित्यवत् तदा एतस्मिन्न् अन्तरे प्रायाद् व्याधो विगतकल्मषः
मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके शंकरस्यादिकेशस्य ददृशे ऽन्तर्गतस् तदा
दृष्ट्वैव किम् इदं चित्रम् इत्य् उक्त्वा निशितैः शरैः आत्मानं भेदयाम् आस शतधा च सहस्रधा
स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः मुहुर् निनिन्द चात्मानं मयि जीवत्य् अभूद् इदम्
कष्टम् आपतितं कीदृग् अहो दुर्विधिवैशसात् तत् कर्म तस्य संवीक्ष्य महादेवो ऽतिविस्मितः ततः प्रोवाच भगवान् वेदं वेदविदां वरम्
पश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् त्वं तु मृद्भिः कुशैर् वार्भिर् मूर्धानं स्पृष्टवान् असि
अनेन सहसा ब्रह्मन् ममात्मापि निवेदितः भक्तिः प्रेमाथवा शक्तिर् विचारो यत्र विद्यते तस्माद् अस्मै वरान् दास्ये पश्चात् तुभ्यं द्विजोत्तम
वरेण च्छन्दयाम् आस व्याधं देवो महेश्वरः व्याधः प्रोवाच देवेशं निर्माल्यं तव यद् भवेत्
तद् अस्माकं भवेन् नाथ मन्नाम्ना तीर्थम् उच्यताम् सर्वक्रतुफलं तीर्थं स्मरणाद् एव जायताम्
तथेत्य् उवाच देवेशस् ततस् तत् तीर्थम् उत्तमम् भिल्लतीर्थं समस्ताघसंघविच्छेदकारणम्
श्रीमहादेवचरणमहाभक्तिविधायकम् अभवत् स्नानदानाद्यैर् भुक्तिमुक्तिप्रदायकम् वेदस्यापि वरान् प्रादाच् छिवो नानाविधान् बहून्
चक्षुस्तीर्थम् इति ख्यातं रूपसौभाग्यदायकम् यत्र योगेश्वरो देवो गौतम्या दक्षिणे तटे
पुरं भौवनम् आख्यातं गिरिमूर्ध्न्य् अभिधीयते यत्रासौ भौवनो राजा क्षत्रधर्मपरायणः