स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् कुर्यात् पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः
माहेश्वरं तु तत् तीर्थं पूजितो ऽभिष्टुतः शिवः भक्तियुक्तेन विप्रैश् च सर्वकर्मविशारदैः
वैदिकैर् लौकिकैश् चैव मन्त्रैः पूज्यं महेश्वरम् नृत्यैर् गीतैस् तथा वाद्यैर् अमृतैः पञ्चसंभवैः
उपचारैश् च बहुभिर् दण्डपातप्रदक्षिणैः धूपैर् दीपैश् च नैवेद्यैः पुष्पैर् गन्धैः सुगन्धिभिः
पूजयाम् आस देवेशं विष्णुं शंभुं धियैकया ततः प्रसन्नौ देवेशौ वरान् ददतुर् ओजसा
अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि माहात्म्यम् अस्य तीर्थस्य तथा ददतुर् उत्तमम्
ततःप्रभृति तत् तीर्थं शैवं वैष्णवम् उच्यते तत्र स्नानं च दानं च सर्वकामप्रदं विदुः
इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत्
भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् तत्र तीर्थे महापुण्यं तीर्थानां शतम् अत्र हि
भिल्लतीर्थम् इति ख्यातं रोगघ्नं पापनाशनम् महादेवपदाम्भोजयुगभक्तिप्रदायकम्
तत्राप्य् एवंविधां पुण्यां कथां शृणु महामते गङ्गाया दक्षिणे तीरे श्रीगिरेर् उत्तरे तटे
आदिकेश इति ख्यात ऋषिभिः परिपूजितः महादेवो लिङ्गरूपी सदास्ते सर्वकामदः
सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः तस्य भ्राता वेद इति स चापि परमो ऋषिः
तम् आदिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् नित्यं पूजयते भक्त्या प्राप्ते मध्यंदिने रवौ
भिक्षाटनाय वेदो ऽपि याति ग्रामं विचक्षणः याते तस्मिन् द्विजवरे व्याधः परमधार्मिकः
तस्मिन् गिरिवरे पुण्ये मृगयां याति नित्यशः अटित्वा विविधान् देशान् मृगान् हत्वा यथासुखम्
मुखे गृहीत्वा पानीयम् अभिषेकाय शूलिनः न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम्
आदिकेशं समागत्य न्यस्य मांसं ततो बहिः गङ्गां गत्वा मुखे वारि गृहीत्वागत्य तं शिवम्
यस्य कस्यापि पत्त्राणि करेणादाय भक्तितः अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः
आदिकेशं समागत्य वेदेनार्चितम् ओजसा पादेनाहत्य तां पूजां मुखानीतेन वारिणा
स्नापयित्वा शिवं देवम् अर्चयित्वा तु पत्त्रकैः कल्पयित्वा तु तन् मांसं शिवो मे प्रीयताम् इति
नैव किंचित् स जानाति शिवभक्तिं विना शुभाम् ततो याति स्वकं स्थानं मांसेन तु यथागतम्
करोत्य् एतादृग् आगत्यागत्य प्रत्यहम् एव सः तथापीशस् तुतोषास्य विचित्रा हीश्वरस्थितिः
यावन् नायात्य् असौ भिल्लः शिवस् तावन् न सौख्यभाक् भक्तानुकम्पितां शंभोर् मानातीतां तु वेत्ति कः
संपूजयत्य् आदिकेशम् उमया प्रत्यहं शिवम् एवं बहुतिथे काले याते वेदश् चुकोप ह
पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् को नु विध्वंसते पापो मत्तः स वधम् आप्नुयात्
गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेर् अपि सर्वस्यापि वधार्हो ऽसौ शिवस्य द्रोहकृन् नरः
एवं निश्चित्य मेधावी वेदः सिन्धोस् तथानुजः कस्येयं पापचेष्टा स्यात् पापिष्ठस्य दुरात्मनः
पुष्पैर् वन्यभवैर् दिव्यैः कन्दैर् मूलफलैः शुभैः कृतां पूजां स विध्वस्य ह्य् अन्यां पूजां करोति यः
मांसेन तरुपत्त्रैश् च स च वध्यो भवेन् मम एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा