तथेत्य् उक्त्वाभिष्टुतो ऽपि देवदेवं दिवाकरम् श्रद्धया प्रार्थयाम् आस हरीशाजात्मकं रविम्
देवानां यजनं देहि सवितस् ते नमो ऽस्तु ते
क्षत्रं दैवं यतः सूर्यो दत्ता भूर् भूपतेस् ततः सविता देवदेवेशो ददामीत्य् अभ्यभाषत
एवं करोति यो यज्ञं तस्य रिष्टिर् न काचन तथा वाजिमखे सत्त्रे ब्राह्मणैर् वेदपारगैः
प्रारब्धे ऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः देवानां यजनं दातुं भानुतीर्थं तद् उच्यते
तं देवक्रतुम् उत्कृष्टं हयमेधं सुरैर् युतम् दैत्याश् च दनुजाश् चैव तथान्ये यज्ञघातकाः
ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव ते ऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः
चमसानि च पात्राणि सोमं चषालम् एव च सोमपानं हविस् त्यागम् ऋत्विजो भूपतिं तथा
निन्दन्ति निक्षिपन्त्य् अन्ये हसन्त्य् अन्ये तथासुराः तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने
विश्वरूपो ऽपि पितरं प्राह दैत्या इमे इति तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम्
गृहीत्वा वारिदर्भांश् च प्रोक्षयध्वं समन्ततः ये निन्दन्ति मखं पुण्यं चमसं सोमम् एव च
मया त्व् अपहताः सर्व इत्य् उक्त्वा परिषिञ्चत
तथा चक्रुः सुरगणास् त्वष्टा चापि तथाकरोत् भस्मीभूतास् ततः सर्वे कांदिशीकास् ततो ऽभवन्
हता मया महापापा इत्य् उक्त्वा वार्य् अवाक्षिपत् ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास् ततः
यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम्
त्वष्टुर् वाक्याच् च्युतान् दैत्यान् निजघान यमस् तदा कालदण्डेन चक्रेण कालपाशेन मन्युना
यत्र ते निहता दैत्यास् तत् तीर्थं याम्यम् उच्यते यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु
धाराभिः शरमानाभिर् अखण्डाभिर् महाध्वरे यत्राभवद् धव्यवाहस् तृप्तस् तस्य ह्य् अभिष्टुतः
अग्नितीर्थं तद् आख्यातम् अश्वमेधफलप्रदम् इन्द्रो मरुद्भिर् नृपतिं प्राहेदं वचनं शुभम्
त्वं संराड् भविता राजन्न् उभयोर् अपि लोकयोः सखा मम प्रियो नित्यं भविता नात्र संशयः
स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् कुर्यात् पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः
माहेश्वरं तु तत् तीर्थं पूजितो ऽभिष्टुतः शिवः भक्तियुक्तेन विप्रैश् च सर्वकर्मविशारदैः
वैदिकैर् लौकिकैश् चैव मन्त्रैः पूज्यं महेश्वरम् नृत्यैर् गीतैस् तथा वाद्यैर् अमृतैः पञ्चसंभवैः
उपचारैश् च बहुभिर् दण्डपातप्रदक्षिणैः धूपैर् दीपैश् च नैवेद्यैः पुष्पैर् गन्धैः सुगन्धिभिः
पूजयाम् आस देवेशं विष्णुं शंभुं धियैकया ततः प्रसन्नौ देवेशौ वरान् ददतुर् ओजसा
अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि माहात्म्यम् अस्य तीर्थस्य तथा ददतुर् उत्तमम्
ततःप्रभृति तत् तीर्थं शैवं वैष्णवम् उच्यते तत्र स्नानं च दानं च सर्वकामप्रदं विदुः
इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत्
भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् तत्र तीर्थे महापुण्यं तीर्थानां शतम् अत्र हि
भिल्लतीर्थम् इति ख्यातं रोगघ्नं पापनाशनम् महादेवपदाम्भोजयुगभक्तिप्रदायकम्