स प्राह का त्वं द्विजपुंगवो ऽपि सोवाच तं राक्षसी कामरूपा विश्वासयन्ती शपथैर् अनेकैस् तं भ्रान्तचित्तं मुनिराजपुत्रम्
कङ्कालिनी नाम जगत्प्रसिद्धा विप्रो ऽपि ताम् आह निवेदितं यत् तद् एव कर्तास्मि न संशयो ऽत्र यत् तत् प्रियं वच्मि करोमि चैव
तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी वृद्धा तथापि चार्वङ्गी दिव्यालंकारभूषणा
द्विजम् आदाय सर्वत्र मत्सुतो ऽयं गुणाकरः एवं वदन्ती सर्वत्र याति वक्ति करोति च
तं विप्रं रूपसौभाग्यवयोविद्याविभूषितम् तां च वृद्धां गुणोपेताम् अस्य मातेति मेनिरे
तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये
सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्य् अचिन्तयत् स द्विजो ऽपि गुणैर् युक्तां पत्नीं दृष्ट्वा सुदुःखितः
माम् इयं भक्षयेद् एव राक्षसी पापरूपिणी किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा
महत् संकटम् आपन्नं रक्षयिष्यति को ऽत्र माम् भार्या ममेयं कल्याणी गुणरूपवयोयुता एनाम् अप्य् अशुभाकस्माद् भक्षयिष्यति राक्षसी
एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी वृद्धाप्य् अतिदुराधर्षा सा गता कुत्रचित् तदा
प्रश्रयावनता भूत्वा बाला चापि पतिव्रता भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः
कस्मात् ते दुःखम् आपन्नं स्वामिंस् तत्त्वं वदस्व मे
शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् किम् अकथ्यं प्रिये मित्रे कुलीनायां च योषिति
भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा
अनात्मनः सर्वतो ऽपि भयम् अस्ति गृहेष्व् अपि कुतो भयं ह्य् आत्मवतां किं पुनर् गौतमीतटे
वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् अत्र स्नात्वा शुचिर् भूत्वा स्तुहि देवम् अनामयम्
एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः तुष्टाव गौतमीतीरे द्विजो नारायणं तथा
त्वम् अन्तरात्मा जगतो ऽस्य नाथ त्वम् एव कर्तास्य मुकुन्द हर्ता त्वं पालकः पालयसे न दीनम् अनाथबन्धो नरसिंह कस्मात्
श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः नारायणो ऽपि तां पापां निजघान स राक्षसीम्
सुदर्शनेन चक्रेण सहस्रारेण भास्वता तस्मै प्रादाद् वरान् इष्टान् प्रापयच् च गुरुं प्रभुः
ततः प्रभृति तत् तीर्थं विप्रं नारायणं विदुः स्नानदानेन पूजाद्यैर् यत्र सिध्यति वाञ्छितम्
भानुतीर्थम् इति ख्यातं त्वाष्ट्रं माहेश्वरं तथा ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम्
अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः हयमेधेन पुण्येन यष्टुम् आरब्धवान् सुरान्
तत्रर्त्विजः षोडश स्युर् वसिष्ठात्रिपुरोगमाः क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत्
ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् भूपतौ दीक्षिते दाता को भवेत् को नु याचते
याच्ञेयम् अखिलाशर्मजननी पापरूपिणी केनाप्य् अतो न कार्यैव क्षत्रियेण विशेषतः
एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति देहि मे देव सवितर् यजनं देवतोचितम्
दैवं क्षत्रम् असि ब्रह्मन् भूतनाथ नमो ऽस्तु ते याचितः सविता राज्ञा देवानां यजनं शुभम्
ददात्य् एव ततो राजन् प्रार्थयेशं दिवाकरम्