तेषां कनीयान् यो भ्राता शान्तो गुणगणैर् वृतः आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः
विवाहाय पिता तस्माऐ आसन्दिवाय यत्नवान् एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम्
अविष्णुस्मरणं सौम्यशिरस्कम् असमाहितम् आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी
तम् आदायागमच् छीघ्रं गौतम्या दक्षिणे तटे श्रीगिरेर् उत्तरे पारे बहुब्राह्मणसेवितम्
नगरं धर्मनिलयं लक्ष्म्या निलयम् एव च तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः
तस्यामितक्षेमसुभिक्षयुक्तं निशावसाने द्विजपुत्रयुक्ता सा राक्षसी तत् पुरम् आससाद मनोज्ञरूपाणि बिभर्ति नित्यम्
सा कामरूपेण चरत्य् अशेषां महीम् इमां तेन समं द्विजेन गोदावरीदक्षिणतीरभागे वृद्धाकृतिस् तं द्विजम् आह भीमा
एषा तु गङ्गा द्विजमुख्य संध्या उपास्यतां विप्रवरैः समेत्य यथोचितं विप्रवरास् तु काले नोपासते यत्नत एव संध्याम्
नीचास् त एवाभिहिताः सुरेशैर् अन्त्यावसायिप्रवरास् त एते अहं जनित्री तव चेति वाच्यं नो चेद् इदानीं त्वम् उपैषि नाशम्
मद्वाक्यकर्तासि यदि द्विजेन्द्र सुखं करिष्ये तव यत् प्रियं च पुनश् च देशं निलयं गुरूंश् च संप्रापयिष्ये ननु सत्यम् एतत्
स प्राह का त्वं द्विजपुंगवो ऽपि सोवाच तं राक्षसी कामरूपा विश्वासयन्ती शपथैर् अनेकैस् तं भ्रान्तचित्तं मुनिराजपुत्रम्
कङ्कालिनी नाम जगत्प्रसिद्धा विप्रो ऽपि ताम् आह निवेदितं यत् तद् एव कर्तास्मि न संशयो ऽत्र यत् तत् प्रियं वच्मि करोमि चैव
तद् विप्रवचनं श्रुत्वा राक्षसी कामरूपिणी वृद्धा तथापि चार्वङ्गी दिव्यालंकारभूषणा
द्विजम् आदाय सर्वत्र मत्सुतो ऽयं गुणाकरः एवं वदन्ती सर्वत्र याति वक्ति करोति च
तं विप्रं रूपसौभाग्यवयोविद्याविभूषितम् तां च वृद्धां गुणोपेताम् अस्य मातेति मेनिरे
तत्र द्विजवरः कश्चित् स्वां कन्यां भूषणान्विताम् राक्षसीं तां पुरस्कृत्य प्रादात् तस्मै द्विजातये
सा कन्या तं पतिं प्राप्य कृतार्थास्मीत्य् अचिन्तयत् स द्विजो ऽपि गुणैर् युक्तां पत्नीं दृष्ट्वा सुदुःखितः
माम् इयं भक्षयेद् एव राक्षसी पापरूपिणी किं करोमि क्व गच्छामि कस्यैतत् कथयामि वा
महत् संकटम् आपन्नं रक्षयिष्यति को ऽत्र माम् भार्या ममेयं कल्याणी गुणरूपवयोयुता एनाम् अप्य् अशुभाकस्माद् भक्षयिष्यति राक्षसी
एतस्मिन्न् अन्तरे तत्र भार्या सा गुणशालिनी वृद्धाप्य् अतिदुराधर्षा सा गता कुत्रचित् तदा
प्रश्रयावनता भूत्वा बाला चापि पतिव्रता भर्तारं दुःखितं ज्ञात्वा पतिं प्राह रहः शनैः
कस्मात् ते दुःखम् आपन्नं स्वामिंस् तत्त्वं वदस्व मे
शनैः प्रोवाच तां भार्यां यथावत् पूर्वविस्तरम् किम् अकथ्यं प्रिये मित्रे कुलीनायां च योषिति
भर्तृवाक्यं निशम्येदं प्रोवाच वदतां वरा
अनात्मनः सर्वतो ऽपि भयम् अस्ति गृहेष्व् अपि कुतो भयं ह्य् आत्मवतां किं पुनर् गौतमीतटे
वसतां विष्णुभक्तानां विरक्तानां विवेकिनाम् अत्र स्नात्वा शुचिर् भूत्वा स्तुहि देवम् अनामयम्
एतद् आकर्ण्य गङ्गायां स्नात्वा विगतकल्मषः तुष्टाव गौतमीतीरे द्विजो नारायणं तथा
त्वम् अन्तरात्मा जगतो ऽस्य नाथ त्वम् एव कर्तास्य मुकुन्द हर्ता त्वं पालकः पालयसे न दीनम् अनाथबन्धो नरसिंह कस्मात्
श्रुत्वैतत् प्रार्थनं तस्य जगच्छोकनिवारणः नारायणो ऽपि तां पापां निजघान स राक्षसीम्
सुदर्शनेन चक्रेण सहस्रारेण भास्वता तस्मै प्रादाद् वरान् इष्टान् प्रापयच् च गुरुं प्रभुः