स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा स तु प्रीतो यदि भवेत् सर्वम् इष्टं प्रदास्यति
इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ शुचिस् तुष्टाव देवेशं हरिं प्रीतो ऽभवद् धरिः
हर्षणाय ततः प्रादात् कुलभद्रं ततस् तु सः सर्वाभद्रप्रशमनपूर्वकं भद्रम् अस्तु ते
तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस् तथा सुताः ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते
सर्वमङ्गलदं पुंसां तत्र भद्रपतिर् हरिः तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः
पतत्रितीर्थम् आख्यातं रोगघ्नं पापनाशनम् तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः
बभूवतुः कश्यपस्य सुताव् अरुणाव् ईश्वरौ संपातिश् च जटायुश् च संभवेतां तदन्वये
तार्क्ष्यप्रजापतेः पुत्राव् अरुणो गरुडस् तथा तदन्वये संभूतः च संपातिः पतगोत्तमः
जटायुर् इति विख्यातो ह्य् अपरः सोदरो ऽनुजः अन्योन्यस्पर्धया युक्ताव् उन्मत्तौ स्वबलेन तौ
संजग्मतुर् दिनकरं नमस्कर्तुं विहायसि यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ
दग्धपक्षाव् उभौ श्रान्तौ पतितौ गिरिमूर्धनि बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ
तावद् दुःखाभिभूतो ऽसाव् अरुणः प्राह भास्करम् तौ दृष्ट्वा त्व् अरुणः सूर्य्.अम् प्राहेदं पतितौ भुवि आश्वासयैतौ तिग्मांशो यावन् नैतौ मरिष्यतः
तथेत्य् उक्त्वा दिनकरो जीवयाम् आस तौ खगौ गरुडो ऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना
आगत्याश्वासयाम् आस सुखं चक्रे च नारद सर्व एव तदा जग्मुर् गङ्गां तापापनुत्तये
जटायुश् चारुणश् चैव संपातिर् गरुडस् तथा सूर्यो विष्णुस् तत् प्रययौ तत् तीर्थं बहुपुण्यदम्
पतत्रितीर्थम् आख्यातं विषघ्नं सर्वकामदम् स्वयं सूर्यस् तथा विष्णुः सुपर्णेनारुणेन च
आसते गौतमीतीरे तथैव वृषभध्वजः त्रयाणाम् अपि देवानां स्थितेस् तत् तीर्थम् उत्तमम्
तत्र स्नात्वा शुचिर् भूत्वा नमस्कुर्यात् सुरान् इमान् आधिव्याधिविनिर्मुक्तः स परं सौख्यम् आप्नुयात्
विप्रतीर्थम् इति ख्यातं तथा नारायणं विदुः तस्याख्यानं प्रवक्ष्यामि शृणु विस्मयकारकम्
अन्तर्वेद्यां द्विजः कश्चिद् ब्राह्मणो वेदपारगः तस्य पुत्रा महाप्राज्ञा गुणरूपदयान्विताः
तेषां कनीयान् यो भ्राता शान्तो गुणगणैर् वृतः आसन्दिव इति ख्यातः सर्वज्ञानो महामतिः
विवाहाय पिता तस्माऐ आसन्दिवाय यत्नवान् एतस्मिन्न् अन्तरे रात्रौ सुप्तं तं द्विजपुत्रकम्
अविष्णुस्मरणं सौम्यशिरस्कम् असमाहितम् आसन्दिवं क्रूररूपा राक्षसी कामरूपिणी
तम् आदायागमच् छीघ्रं गौतम्या दक्षिणे तटे श्रीगिरेर् उत्तरे पारे बहुब्राह्मणसेवितम्
नगरं धर्मनिलयं लक्ष्म्या निलयम् एव च तत्र राजा बृहत्कीर्तिः सर्वक्षत्रगुणान्वितः
तस्यामितक्षेमसुभिक्षयुक्तं निशावसाने द्विजपुत्रयुक्ता सा राक्षसी तत् पुरम् आससाद मनोज्ञरूपाणि बिभर्ति नित्यम्
सा कामरूपेण चरत्य् अशेषां महीम् इमां तेन समं द्विजेन गोदावरीदक्षिणतीरभागे वृद्धाकृतिस् तं द्विजम् आह भीमा
एषा तु गङ्गा द्विजमुख्य संध्या उपास्यतां विप्रवरैः समेत्य यथोचितं विप्रवरास् तु काले नोपासते यत्नत एव संध्याम्
नीचास् त एवाभिहिताः सुरेशैर् अन्त्यावसायिप्रवरास् त एते अहं जनित्री तव चेति वाच्यं नो चेद् इदानीं त्वम् उपैषि नाशम्
मद्वाक्यकर्तासि यदि द्विजेन्द्र सुखं करिष्ये तव यत् प्रियं च पुनश् च देशं निलयं गुरूंश् च संप्रापयिष्ये ननु सत्यम् एतत्