यत् पुरा विहितं कर्म प्राणिना साध्व् असाधु वा फलं तदनुरोधेन प्राप्यते ऽपि भवान्तरे
स्वदोष एव तत् पित्रा परिहर्तव्य आदरात् तादृग् एव फलं तु स्याद् यादृग् आचरितं पुरा
तस्मात् तद्दानसंबन्धं स्ववंशानुगतं पिता करोति शेषं दैवेन यद् भाव्यं तद् भविष्यति
तच् छ्रुत्वा दुहितुर् वाक्यं त्वष्टुः पुत्राय भीषणाम् विश्वरूपाय तां प्रादाद् विष्टिं लोकभयंकरीम्
विश्वरूपो ऽपि तद्वच् च भीषणो भीषणाकृतिः एवं मिथः संचरतोः शीलरूपसमानयोः
प्रीतिः कदाचिद् वैषम्यं दंपत्योर् अभवन् मिथः गण्डो नामाभवत् पुत्रो ह्य् अतिगण्डस् तथैव च
रक्ताक्षः क्रोधनश् चैव व्ययो दुर्मुख एव च तेभ्यः कनीयान् अभवद् धर्षणो नाम पुण्यभाक्
सुतः सुशीलः सुभगः शान्तः शुद्धमतिः शुचिः स कदाचिद् यमगृहं द्रष्टुं मातुलम् अभ्यगात्
स ददर्श बहूञ् जन्तून् स्वर्गस्थान् इव दुःखिनः स मातुलं तु पप्रच्छ नत्वा धर्मं सनातनम्
क इमे सुखिनस् तात पच्यन्ते नरके च के
एवं पृष्टो धर्मराजः सर्वं प्राह यथार्थवत् तत्कर्मणां गतिं सर्वाम् अशेषेण न्यवेदयत्
विहितस्य न कुर्वन्ति ये कदाचिद् अतिक्रमम् न ते पश्यन्ति निरयं कदाचिद् अपि मानवाः
न मानयन्ति ये शास्त्रं नाचारं न बहुश्रुतान् विहितातिक्रमं कुर्युर् ये ते नरकगामिनः
स तु श्रुत्वा धर्मवाक्यं हर्षणः पुनर् अब्रवीत्
पिता त्वाष्ट्रो भीषणश् च माता विष्टिश् च भीषणा भ्रातरश् च महात्मानो येन ते शान्तबुद्धयः
सुरूपाश् च भविष्यन्ति निर्दोषा मङ्गलप्रदाः तन् मे कर्म वदस्वाद्य तत्कर्तास्मि सुरोत्तम
अन्यथा तान् न गच्छेयम् इत्य् उक्तः प्राह धर्मराट् हर्षणं शुद्धबुद्धिं तं हर्षणो ऽसि न संशयः
बहवः स्युः सुताः केचिन् नैव ते कुलतन्तवः एक एव सुतः कश्चिद् येन तद् ध्रियते कुलम्
कुलस्याधारभूतो यो यः पित्रोः प्रियकारकः यः पूर्वजान् उद्धरति स पुत्रस् त्व् इतरो गदः
यस्मात् त्वयानुरूपं मे प्रोक्तं मातामह प्रियम् तस्मात् त्वं गौतमीं गच्छ स्नात्वा नियतमानसः
स्तुहि विष्णुं जगद्योनिं शान्तं प्रीतेन चेतसा स तु प्रीतो यदि भवेत् सर्वम् इष्टं प्रदास्यति
इति श्रुत्वा धर्मवाक्यं हर्षणो गौतमीं ययौ शुचिस् तुष्टाव देवेशं हरिं प्रीतो ऽभवद् धरिः
हर्षणाय ततः प्रादात् कुलभद्रं ततस् तु सः सर्वाभद्रप्रशमनपूर्वकं भद्रम् अस्तु ते
तद् भद्रा प्रोच्यते विष्टिः पिता भद्रस् तथा सुताः ततः प्रभृति तत् तीर्थं भद्रतीर्थं तद् उच्यते
सर्वमङ्गलदं पुंसां तत्र भद्रपतिर् हरिः तत्तीर्थसेविनां पुंसां सर्वसिद्धिप्रदायकम् मङ्गलैकनिधिः साक्षाद् देवदेवो जनार्दनः
पतत्रितीर्थम् आख्यातं रोगघ्नं पापनाशनम् तस्य श्रवणमात्रेण कृतकृत्यो भवेन् नरः
बभूवतुः कश्यपस्य सुताव् अरुणाव् ईश्वरौ संपातिश् च जटायुश् च संभवेतां तदन्वये
तार्क्ष्यप्रजापतेः पुत्राव् अरुणो गरुडस् तथा तदन्वये संभूतः च संपातिः पतगोत्तमः
जटायुर् इति विख्यातो ह्य् अपरः सोदरो ऽनुजः अन्योन्यस्पर्धया युक्ताव् उन्मत्तौ स्वबलेन तौ
संजग्मतुर् दिनकरं नमस्कर्तुं विहायसि यावत् सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ