निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः प्रीतिमान् अभवद् राजा ययातिर् अपराजितः
एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत् जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै
तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम्
जरायां बहवो दोषाः पानभोजनकारिताः तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै
स एवम् उक्तो यदुना राजा कोपसमन्वितः उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम्
क आश्रमस् तवान्यो ऽस्ति को वा धर्मो विधीयते माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः
एवम् उक्त्वा यदुं विप्राः शशापैनं स मन्युमान् अराज्या ते प्रजा मूढ भवित्रीति न संशयः
द्रुह्यं च तुर्वसुं चैवाप्य् अनुं च द्विजसत्तमाः एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि
शशाप तान् अतिक्रुद्धो ययातिर् अपराजितः यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः
एवं शप्त्वा सुतान् सर्वांश् चतुरः पुरुपूर्वजान् तद् एव वचनं राजा पुरुम् अप्य् आह भो द्विजाः
तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे
स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान् ययातिर् अपि रूपेण पुरोः पर्यचरन् महीम्
स मार्गमाणः कामानाम् अन्तं नृपतिसत्तमः विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः
यदा च तृप्तः कामेषु भोगेषु च नराधिपः तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत
यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना याभिः प्रत्याहरेत् कामान् सर्वशो ऽङ्गानि कूर्मवत्
न जातु कामः कामानाम् उपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः नालम् एकस्य तत् सर्वम् इति कृत्वा न मुह्यति
यदा भावं न कुरुते सर्वभूतेषु पापकम् कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम्
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति
यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम् तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम्
एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम् कालेन महता चायं चचार विपुलं तपः
भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान्
तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
यदोस् तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम् यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः
सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः ययातिचरितं नित्यम् इदं शृण्वन् द्विजोत्तमाः
पुरोर् वंशं वयं सूत श्रोतुम् इच्छाम तत्त्वतः द्रुह्यस्यानोर् यदोश् चैव तुर्वसोश् च पृथक् पृथक्