एवम् उक्तः स नृपतिश् चिच्चिकेन द्विजन्मना दर्शयाम् आस तं देवं तां च गङ्गां द्विजन्मने
ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम्
गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः न पश्यत्य् उच्यते तावद् इहामुत्रापि पातकी
तस्मात् सर्वागसम् अपि माम् उद्धर सरिद्वरे संसारे देहिनाम् अन्या न गतिः कापि कुत्रचित् त्वां विना विष्णुचरणसरोरुहसमुद्भवे
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः स्नानं चक्रे स्मरन्न् अन्तर् गङ्गे त्रायस्व माम् इति
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु पवमानाभ्यनुज्ञातस् तदैव दिवम् आक्रमत्
पवमानः स्वनगरं प्रययौ सानुगस् ततः ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम्
गदाधरं कोटितीर्थम् इति वेदविदो विदुः कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम्
भद्रतीर्थम् इति प्रोक्तं सर्वानिष्टनिवारणम् सर्वपापप्रशमनं महाशान्तिप्रदायकम्
आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता छायापि भार्या सवितुस् तस्याः पुत्रः शनैश्चरः
तस्य स्वसा विष्टिर् इति भीषणा पापरूपिणी तां कन्यां सविता कस्मै ददामीति मतिं दधे
यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः तच् छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया एवं तु वर्तमाने सा पितरं प्राह दुःखिता
बालाम् एव पिता यस् तु दद्यात् कन्यां सुरूपिणे स कृतार्थो भवेल् लोके न चेद् दुष्कृतवान् पिता
चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः
श्रीमते विदुषे यूने कुलीनाय यशस्विने उदाराय सनाथाय कन्या देया वराय वै
एतच् चेद् अन्यथा कुर्यात् पिता स निरयी सदा धर्मस्य साधनं कन्या विदुषाम् अपि भास्कर
नरकस्येव मूर्खाणां कामोपहतचेतसाम् एकतः पृथिवी कृत्स्ना सशैलवनकानना
स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता विक्रीणीते यश् च कन्याम् अश्वं वा गां तिलान् अपि
न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर् भवेत् विवाहातिक्रमः कार्यो न कन्यायाः कदाचन
तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते यावल् लज्जां न जानाति यावत् क्रीडति पांशुभिः
तावत् कन्या प्रदातव्या नो चेत् पित्रोर् अधोगतिः पितुः स्वरूपं पुत्रः स्याद् यः पिता पुत्र एव सः
आत्मनः सुखितां लोके को न कुर्यात् करोति च यत् कन्यायां पिता कुर्याद् दानं पूजनम् ईक्षणम्
यत् कृतं तत् कृतं विद्यात् तासु दत्तं तद् अक्षयम् यद् दत्तं तासु कन्यासु तद् आनन्त्याय कल्पते
पुत्रेषु चैव पौत्रेषु को न कुर्यात् सुखं रवे करोति यः कन्यकानां स संपद्भाजनं भवेत्
एवं तां वादिनीं कन्यां विष्टिं प्रोवाच भास्करः
किं करोमि न गृह्णाति त्वां कश्चिद् भीषणाकृतिम् कुलं रूपं वयो वित्तं विद्यां वृत्तं सुशीलताम्
मिथः पश्यन्ति संबन्धे विवाहे स्त्रीषु पुंसु च अस्मासु सर्वम् अप्य् अस्ति विना तव गुणैः शुभे किं करोमि क्व दास्यामि वृथा मां धिक् करोषि किम्
एवम् उक्त्वा पुनस् तां च विष्टिं प्रोवाच भास्करः
यस्मै कस्मै च दातव्या त्वं वै यद्य् अनुमन्यसे दीयसे ऽद्य मया विष्टे अनुजानीहि मां ततः
पितरं प्राह सा विष्टिर् भर्ता पुत्रा धनं सुखम् आयू रूपं च संप्रीतिर् जायते प्राक्तनानुगम्