एवं भूतो ऽपि सत्कर्म किंचित् कर्तास्मि कुत्रचित् तेनाहं कर्मणा राजन् स्वतः स्मर्ता पुरा कृतम्
तच् चिच्चिकवचः श्रुत्वा पवमानः सुविस्मितः कर्मणा केन ते मुक्तिर् इत्य् आह नृपतिर् द्विजम्
इति तस्य वचः श्रुत्वा नृपतिं प्राह पक्षिराट्
अस्मिन्न् एव नगश्रेष्ठे गौतम्या उत्तरे तटे गदाधरं नाम तीर्थं तत्र मां नय सुव्रत
तद् धि तीर्थं पुण्यतमं सर्वपापप्रणाशनम् सर्वकामप्रदं चेति महद्भिर् मुनिभिः श्रुतम्
न गौतम्यास् तथा विष्णोर् अपरं क्लेशनाशनम् सर्वभावेन तत् तीर्थं पश्येयम् इति मे मतिः
मत्कृतेन प्रयत्नेन नैतच् छक्यं कदाचन कथम् आकाङ्क्षितप्राप्तिर् भवेद् दुष्कृतकर्मणाम्
सप्रयत्नो ऽप्य् अहं वीर न पश्ये तत् सुदुष्करम् तस्मात् तव प्रसादाच् च पश्येयं हि गदाधरम्
अविज्ञापितदुःखज्ञं करुणावरुणालयम् यस्मिन् दृष्टे भवक्लेशा न दृश्यन्ते पुनर् नरैः
दृष्ट्वैव तं दिवं यास्ये प्रसादात् तव सुव्रत
एवम् उक्तः स नृपतिश् चिच्चिकेन द्विजन्मना दर्शयाम् आस तं देवं तां च गङ्गां द्विजन्मने
ततः स चिच्चिकः स्नात्वा गङ्गां त्रैलोक्यपावनीम्
गङ्गे गौतमि यावत् त्वां त्रिजगत्पावनीं नरः न पश्यत्य् उच्यते तावद् इहामुत्रापि पातकी
तस्मात् सर्वागसम् अपि माम् उद्धर सरिद्वरे संसारे देहिनाम् अन्या न गतिः कापि कुत्रचित् त्वां विना विष्णुचरणसरोरुहसमुद्भवे
इति श्रद्धाविशुद्धात्मा गङ्गैकशरणो द्विजः स्नानं चक्रे स्मरन्न् अन्तर् गङ्गे त्रायस्व माम् इति
गदाधरं ततो नत्वा पश्यत्सु नगवासिषु पवमानाभ्यनुज्ञातस् तदैव दिवम् आक्रमत्
पवमानः स्वनगरं प्रययौ सानुगस् ततः ततः प्रभृति तत् तीर्थं पावमानं सचिच्चिकम्
गदाधरं कोटितीर्थम् इति वेदविदो विदुः कोटिकोटिगुणं कर्म कृतं तत्र भवेन् नृणाम्
भद्रतीर्थम् इति प्रोक्तं सर्वानिष्टनिवारणम् सर्वपापप्रशमनं महाशान्तिप्रदायकम्
आदित्यस्य प्रिया भार्या उषा त्वाष्ट्री पतिव्रता छायापि भार्या सवितुस् तस्याः पुत्रः शनैश्चरः
तस्य स्वसा विष्टिर् इति भीषणा पापरूपिणी तां कन्यां सविता कस्मै ददामीति मतिं दधे
यस्मै यस्मै दातुकामः सूर्यो लोकगुरुः प्रभुः तच् छ्रुत्वा भीषणा चेति किं कुर्मो भार्ययानया एवं तु वर्तमाने सा पितरं प्राह दुःखिता
बालाम् एव पिता यस् तु दद्यात् कन्यां सुरूपिणे स कृतार्थो भवेल् लोके न चेद् दुष्कृतवान् पिता
चतुर्थाद् वत्सराद् ऊर्ध्वं यावन् न दशमात्ययः तावद् विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः
श्रीमते विदुषे यूने कुलीनाय यशस्विने उदाराय सनाथाय कन्या देया वराय वै
एतच् चेद् अन्यथा कुर्यात् पिता स निरयी सदा धर्मस्य साधनं कन्या विदुषाम् अपि भास्कर
नरकस्येव मूर्खाणां कामोपहतचेतसाम् एकतः पृथिवी कृत्स्ना सशैलवनकानना
स्वलंकृतोपाधिहीना सुकन्या चैकतः स्मृता विक्रीणीते यश् च कन्याम् अश्वं वा गां तिलान् अपि
न तस्य रौरवादिभ्यः कदाचिन् निष्कृतिर् भवेत् विवाहातिक्रमः कार्यो न कन्यायाः कदाचन
तस्मिन् कृते यत् पितुः स्यात् पापं तत् केन कथ्यते यावल् लज्जां न जानाति यावत् क्रीडति पांशुभिः