पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः
बलेन महता युक्तः सपुरोधा वनं ययौ रेमे स्त्रीभिर् मनोज्ञाभिर् नृत्यवादित्रजैः सुखैः
स च एवं धनुष्पाणिर् मृगयाशीलिभिर् वृतः एवं भ्रमन् कदाचित् स श्रान्तो द्रुमम् उपागतः
गौतमीतीरसंभूतं नानापक्षिगणैर् वृतम् आश्रमाणां गृहपतिं धर्मज्ञम् इव सेवितम्
तम् आश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम्
तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् चिन्ताविष्टं तथा श्रान्तं तम् अपृच्छन् नृपोत्तमः
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखम् आगतः
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः
मत्तो भयं न चान्येषां मम वान्योपपादितम् नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम्
पश्येयं शून्यम् एवाद्रिं ततः शोचामि माम् अहम् न लभामि सुखं किंचिन् न तृप्यामि कदाचन निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम्
द्विमुखस्य द्विजस्योक्तं श्रुत्वा राजातिविस्मितः
को भवान् किं कृतं पापं कस्माच् छून्यश् च पर्वतः एकेनास्येन तृप्यन्ति प्राणिनो ऽत्र नगोत्तमे
किम् उतास्यद्वयेन त्वं न तृप्तिम् उपयास्यसि किं वा ते दुष्कृतं प्राप्तम् इह जन्मन्य् अथो पुरा
तत् सर्वं शंस मे सत्यं त्रास्ये त्वां महतो भयात्
राजानं तं द्विजः प्राह निःश्वसन्न् अथ चिच्चिकः
वक्ष्ये ऽहं त्वां पूर्ववृत्तं पवमान शृणुष्व तत् अहं द्विजातिप्रवरो वेदवेदाङ्गपारगः
कुलीनो विदितप्राज्ञः कार्यहन्ता कलिप्रियः वदे पुरस् तथा पृष्ठे अन्यद् अन्यच् च जन्तुषु
परवृद्ध्या सदा दुःखी मायया विश्ववञ्चकः कृतघ्नः सत्यरहितः परनिन्दाविचक्षणः
मित्रस्वामिगुरुद्रोही दम्भाचारो ऽतिनिर्घृणः मनसा कर्मणा वाचा तापयामि जनान् बहून्
अयम् एव विनोदो मे सदा यत् परहिंसनम् युग्मभेदं गणोच्छेदं मर्यादाभेदनं सदा
करोमि निर्विचारो ऽहं विद्वत्सेवापराङ्मुखः न मया सदृशः कश्चित् पातकी भवनत्रये
तेनाहं द्विमुखो जातस् तापनाद् दुःखभाग्य् अहम् तस्माद् दुःखेन संतप्तः शून्यो ऽयं पर्वतो मम
अन्यच् च शृणु भूपाल वाक्यं धर्मार्थसंहितम् ब्रह्महत्यासमं पापं तद् विना तद् अवाप्यते
क्षत्रियः संगरं गत्वा अथवान्यत्र संगरात् पलायन्तं न्यस्तशस्त्रं विश्वस्तं च पराङ्मुखम्
अविज्ञातं चोपविष्टं बिभेमीति च वादिनम् तं यदि क्षत्रियो हन्यात् स तु स्याद् ब्रह्मघातकः
अधीतं विस्मरति यस् त्वं करोति तथोत्तमम् अनादरं च गुरुषु तम् आहुर् ब्रह्मघातकम्
प्रत्यक्षे च प्रियं वक्ति परोक्षे परुषाणि च अन्यद् धृदि वचस्य् अन्यत् करोत्य् अन्यत् सदैव यः
गुरूणां शपथं कर्ता द्वेष्टा ब्राह्मणनिन्दकः मिथ्या विनीतः पापात्मा स तु स्याद् ब्रह्मघातकः
देवं वेदम् अथाध्यात्मं धर्मब्राह्मणसंगतिम् एतान् निन्दति यो द्वेषात् स तु स्याद् ब्रह्मघातकः
एवं भूतो ऽप्य् अहं राजन् दम्भार्थं लज्जया तथा सद्वृत्त इव वर्ते ऽहं तस्माद् राजन् द्विजो ऽभवम्