एतद् वाक्यं समाकर्ण्य राक्षसेन समीरितम् शाकल्यः कृपया प्राह वरदा सा सरस्वती
तवाचिराद् दैत्यपते ततः स्तुहि जनार्दनम् मनोरथफलप्राप्तौ नान्यन् नारायणस्तुतेः
किंचिद् अप्य् अस्ति लोके ऽस्मिन् कारणं शृणु राक्षस प्रसन्ना तव सा देवी मद्वाक्याच् च भविष्यति
तथेत्य् उक्त्वा स परशुर् गङ्गां त्रैलोक्यपावनीम् स्नात्वा शुचिर् यतमना गङ्गाम् अभिमुखः स्थितः
तत्रापश्यद् दिव्यरूपां दिव्यगन्धानुलेपनाम् सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम्
जगज्जाड्यहरां विश्वजननीं भुवनेश्वरीम् ताम् उवाच विनीतात्मा परशुर् गतकल्मषः
गुरुः शाकल्य इत्य् आह माकान्तं स्तुहि विध्वजम् तव प्रसादात् सा शक्तिर् यथा मे स्यात् तथा कुरु
तथास्त्व् इति च सा प्राह परशुं श्रीसरस्वती सरस्वत्याः प्रसादेन परशुस् तं जनार्दनम्
तुष्टाव विविधैर् वाक्यैस् ततस् तुष्टो ऽभवद् धरिः वरं प्रादाद् राक्षसाय कृपासिन्धुर् जनार्दनः
यद् यन् मनोगतं रक्षस् तत् तत् सर्वं भविष्यति
शाकल्यस्य प्रसादेन गौतम्याश् च प्रसादतः सरस्वत्याः प्रसादेन नरसिंहप्रसादतः
पापिष्ठो ऽपि तदा रक्षः परशुर् दिवम् एयिवान् सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच् छार्ङ्गधन्वनः
ततः प्रभृति तत् तीर्थं सारस्वतम् इति श्रुतम् तत्र स्नानेन दानेन विष्णुलोके महीयते
वाग्जवैष्णवशाकल्यपरशुप्रभवाणि हि बहून्य् अभूवंस् तीर्थानि तस्मिन् वै श्वेतपर्वते
चिच्चिकातीर्थम् इत्य् उक्तं सर्वरोगविनाशनम् सर्वचिन्ताप्रहरणं सर्वशान्तिकरं नृणाम्
तस्य स्वरूपं वक्ष्यामि शुभ्रे तस्मिन् नगोत्तमे गङ्गाया उत्तरे पारे यत्र देवो गदाधरः
चिच्चिकः पक्षिराट् तत्र भेरुण्डो यो ऽभिधीयते सदा वसति तत्रैव मांसाशी श्वेतपर्वते
नानापुष्पफलाकीर्णैः सर्वर्तुकुसुमैर् नगैः सेविते द्विजमुख्यैश् च गौतम्या चोपशोभिते
सिद्धचारणगन्धर्वकिंनरामरसंकुले तत्समीपे नगः कश्चिद् द्विपदां च चतुष्पदाम्
रोगार्तिक्षुत्तृषाचिन्तामरणानां न भाजनम् एवं गुणान्विते शैले नानामुनिगणावृते
पूर्वदेशाधिपः कश्चित् पवमान इति श्रुतः क्षत्रधर्मरतः श्रीमान् देवब्राह्मणपालकः
बलेन महता युक्तः सपुरोधा वनं ययौ रेमे स्त्रीभिर् मनोज्ञाभिर् नृत्यवादित्रजैः सुखैः
स च एवं धनुष्पाणिर् मृगयाशीलिभिर् वृतः एवं भ्रमन् कदाचित् स श्रान्तो द्रुमम् उपागतः
गौतमीतीरसंभूतं नानापक्षिगणैर् वृतम् आश्रमाणां गृहपतिं धर्मज्ञम् इव सेवितम्
तम् आश्रित्य नगश्रेष्ठं पवमानो नृपोत्तमः स विश्रान्तो जनवृत ईक्षां चक्रे नगोत्तमम्
तत्रापश्यद् द्विजं स्थूलं द्विमुखं शोभनाकृतिम् चिन्ताविष्टं तथा श्रान्तं तम् अपृच्छन् नृपोत्तमः
को भवान् द्विमुखः पक्षी चिन्तावान् इव लक्ष्यसे नैवात्र कश्चिद् दुःखार्तः कस्मात् त्वं दुःखम् आगतः
ततः प्रोवाच नृपतिं पवमानं शनैः शनैः समाश्वस्तमनाः पक्षी चिच्चिको निःश्वसन् मुहुः
मत्तो भयं न चान्येषां मम वान्योपपादितम् नानापुष्पफलाकीर्णं मुनिभिः परिसेवितम्
पश्येयं शून्यम् एवाद्रिं ततः शोचामि माम् अहम् न लभामि सुखं किंचिन् न तृप्यामि कदाचन निद्रां प्राप्नोमि न क्वापि न विश्रान्तिं न निर्वृतिम्