कदाचिद् बालरूपेण एवं चरति पापकृत् यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः
तम् आयाति महापापी परशू राक्षसाधमः शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च
नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत् स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः
भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली कन्याम् आदाय कांचिच् च शाकल्यं वाक्यम् अब्रवीत्
भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज आतिथ्यकाले संप्राप्तं कृतकृत्यो ऽसि मानद
त एव धन्या लोके ऽस्मिन् येषाम् अतिथयो गृहात् पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुंधरा
एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत् आसने चोपवेश्याथाज्ञानात् तं परशुं द्विजम्
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत्
दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः
अतिथिश् चापवादी च द्वाव् एतौ विश्वबान्धवौ अपवादी हरेत् पापम् अतिथिः स्वर्गसंक्रमः
अभ्यागतं पथि श्रान्तं सावज्ञं यो ऽभिवीक्षते तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः
तस्माद् अभ्यागतः श्रान्तो याचे ऽहं त्वां द्विजोत्तम दास्यसे यदि मे कामं तद् भोक्ष्ये ऽहं न चान्यथा
दत्तम् इत्य् एव शाकल्यो भुङ्क्ष्वेत्य् एवाह राक्षसम् ततः प्रोवाच परशुर् अहं राक्षससत्तमः
नाहं द्विजस् तव रिपुर् न वृद्धः पलितः कृशः बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम
श्रुत्वा परशुवाक्यं तच् छाकल्यो वाक्यम् अब्रवीत्
ये महाकुलसंभूता विज्ञातसकलागमाः तत् प्रतिश्रुतम् अभ्येति न जात्व् अत्र विपर्ययम्
यथोचितं कुरु सखे तथापि शृणु मे वचः निहन्तुम् अप्य् उद्यतेषु वक्तव्यं हितम् उत्तमैः
ब्राह्मणो ऽहं वज्रतनुः सर्वतो रक्षको हरिः पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् हृदयं रक्षतात् कृष्णो ह्य् अङ्गुली रक्षतान् मृगः
मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद् भवः नानापत्स्व् एकशरणं देवो नारायणः स्वयम्
एवम् उक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् मां राक्षसेन्द्र परशो त्वम् इदानीम् अतन्द्रितः
राक्षसस् तस्य वचनाद् भक्षणाय समुद्यतः नास्त्य् एव हृदये नूनं पापिनां करुणाकणः
दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा ब्राह्मणं तं निरीक्ष्यैवं परशुर् वाक्यम् अब्रवीत्
शङ्खचक्रगदापाणिं त्वां पश्ये ऽहं द्विजोत्तम सहस्रपादशिरसं सहस्राक्षकरं विभुम्
सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् त्वाम् अद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः
तस्मात् प्रसादये विप्र त्वम् एव शरणं भव ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्य् अघनिष्कृतिम्
महतां दर्शनं ब्रह्मञ् जायते नहि निष्फलम् द्वेषाद् अज्ञानतो वापि प्रसङ्गाद् वा प्रमादतः
अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते