न मन्युतीर्थसदृशं पावनं हि महामुने यत्र साक्षान् मन्युरूपी सर्वदा शंकरः स्थितः तत्र स्नानं च दानं च स्मरणं सर्वकामदम्
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम्
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद
पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः तस्मिञ् शुभ्रे पुण्यगिरौ तपस् तेपे ह्य् अनुत्तमम्
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरम् आश्रितम् सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम्
अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते
तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः यज्ञद्वेषी ब्रह्महन्ता परशुर् नाम राक्षसः
कामरूपी विचरति नानारूपधरो वने क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक्
कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः
कदाचिद् बालरूपेण एवं चरति पापकृत् यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः
तम् आयाति महापापी परशू राक्षसाधमः शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च
नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत् स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः
भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली कन्याम् आदाय कांचिच् च शाकल्यं वाक्यम् अब्रवीत्
भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज आतिथ्यकाले संप्राप्तं कृतकृत्यो ऽसि मानद
त एव धन्या लोके ऽस्मिन् येषाम् अतिथयो गृहात् पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुंधरा
एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत् आसने चोपवेश्याथाज्ञानात् तं परशुं द्विजम्
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत्
दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः
अतिथिश् चापवादी च द्वाव् एतौ विश्वबान्धवौ अपवादी हरेत् पापम् अतिथिः स्वर्गसंक्रमः
अभ्यागतं पथि श्रान्तं सावज्ञं यो ऽभिवीक्षते तत्क्षणाद् एव नश्यन्ति तस्य धर्मयशःश्रियः
तस्माद् अभ्यागतः श्रान्तो याचे ऽहं त्वां द्विजोत्तम दास्यसे यदि मे कामं तद् भोक्ष्ये ऽहं न चान्यथा
दत्तम् इत्य् एव शाकल्यो भुङ्क्ष्वेत्य् एवाह राक्षसम् ततः प्रोवाच परशुर् अहं राक्षससत्तमः
नाहं द्विजस् तव रिपुर् न वृद्धः पलितः कृशः बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा तस्मान् नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम
श्रुत्वा परशुवाक्यं तच् छाकल्यो वाक्यम् अब्रवीत्
ये महाकुलसंभूता विज्ञातसकलागमाः तत् प्रतिश्रुतम् अभ्येति न जात्व् अत्र विपर्ययम्
यथोचितं कुरु सखे तथापि शृणु मे वचः निहन्तुम् अप्य् उद्यतेषु वक्तव्यं हितम् उत्तमैः
ब्राह्मणो ऽहं वज्रतनुः सर्वतो रक्षको हरिः पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः