सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः वित्रेसुर् दैत्यदनुजाः कृताञ्जलिपुटाः सुराः
भूत्वा मन्युम् अथोचुस् ते त्वं सेनानीः प्रभो भव त्वया दत्तम् इदं राज्यं मन्यो भोक्ष्यामहे वयम्
तस्मात् सर्वेषु कार्येषु जेता त्वं जयवर्धनः त्वम् इन्द्रस् त्वं च वरुणो लोकपालास् त्वम् एव च
अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै मन्युः प्रोवाच तान् सर्वान् विना मत्तो न किंचन
सर्वेष्व् अन्तः प्रविष्टो ऽहं न मां जानाति कश्चन स एव भगवान् मन्युस् ततो जातः पृथक् पृथक्
स एव रुद्ररूपी स्याद् रुद्रो मन्युः शिवो ऽभवत् स्थावरं जङ्गमं चैव सर्वं व्याप्तं हि मन्युना
तम् अवाप्य सुराः सर्वे जयम् आपुश् च संगरे जयो मन्युश् च शौर्यं च ईशतेजःसमुद्भवम्
मन्युना जयम् आप्याथ कृत्वा दैत्यैश् च संगमम् यथागतं ययुः सर्वे मन्युना परिरक्षिताः
यत्र वै गौतमीतीरे शिवम् आराध्य ते सुराः मन्युम् आपुर् जयं चैव मन्युतीर्थं तद् उच्यते
उत्पत्तिं च तथा मन्योर् यो नरः प्रयतः स्मरेत् विजयो जायते तस्य न कैश्चित् परिभूयते
न मन्युतीर्थसदृशं पावनं हि महामुने यत्र साक्षान् मन्युरूपी सर्वदा शंकरः स्थितः तत्र स्नानं च दानं च स्मरणं सर्वकामदम्
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम्
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् तत्रेमं शृणु वृत्तान्तं विस्तरेणाथ नारद
पुष्पोत्कटात् पूर्वभागे पर्वतो लोकविश्रुतः शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः तस्मिञ् शुभ्रे पुण्यगिरौ तपस् तेपे ह्य् अनुत्तमम्
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरम् आश्रितम् सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम्
अग्निशुश्रूषणपरं वेदाध्ययनतत्परम् ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते
तस्मिन् गिरौ महापुण्ये देवद्विजभयंकरः यज्ञद्वेषी ब्रह्महन्ता परशुर् नाम राक्षसः
कामरूपी विचरति नानारूपधरो वने क्षणं च ब्रह्मरूपेण कदाचिद् व्याघ्ररूपधृक्
कदाचिद् देवरूपेण कदाचित् पशुरूपधृक् कदाचित् प्रमदारूपः कदाचिन् मृगरूपतः
कदाचिद् बालरूपेण एवं चरति पापकृत् यत्रास्ते ब्राह्मणो विद्वाञ् शाकल्यो मुनिसत्तमः
तम् आयाति महापापी परशू राक्षसाधमः शुचिष्मन्तं द्विजश्रेष्ठं परशुर् नित्यम् एव च
नेतुं हन्तुं प्रवृत्तो ऽपि न शशाक स पापकृत् स कदाचिद् द्विजश्रेष्ठो देवान् अभ्यर्च्य यत्नतः
भोक्तुकामः किलायातस् तत्रायात् परशुर् मुने ब्रह्मरूपधरो भूत्वा शिथिलः पलितो ऽबली कन्याम् आदाय कांचिच् च शाकल्यं वाक्यम् अब्रवीत्
भोजनस्यार्थिनं विद्धि मां च कन्याम् इमां द्विज आतिथ्यकाले संप्राप्तं कृतकृत्यो ऽसि मानद
त एव धन्या लोके ऽस्मिन् येषाम् अतिथयो गृहात् पूर्णाभिलाषा निर्यान्ति जीवन्तो ऽपि मृताः परे
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् अतिथिभ्यस् तु यो दद्याद् दत्ता तेन वसुंधरा
एतच् छ्रुत्वा तु शाकल्यो ददामीत्य् एवम् अब्रवीत् आसने चोपवेश्याथाज्ञानात् तं परशुं द्विजम्
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ आपोशनं करे कृत्वा परशुर् वाक्यम् अब्रवीत्
दूराद् अभ्यागतं श्रान्तम् अनुगच्छन्ति देवताः तस्मिंस् तृप्ते तु तृप्ताः स्युर् अतृप्ते तु विपर्ययः