तस्माद् अद्यापि कुण्डानि सन्ति च त्रीणि नारद यज्ञेश्वरस्वरूपाणि विष्णोर् वै चक्रपाणिनः
ततः प्रभृति चाख्यातं मद्देवयजनं च तत् तत्रस्थः कृमिकीटादिः सो ऽप्य् अन्ते मुक्तिभाजनम्
धर्मबीजं मुक्तिबीजं दण्डकारण्यम् उच्यते विशेषाद् गौतमीश्लिष्टो देशः पुण्यतमो ऽभवत्
प्रणीतासंगमे चापि कुशतर्पण एव वा स्नानदानादि यः कुर्यात् स गच्छेत् परमं पदम्
स्मरणं पठनं वापि श्रवणं चापि भक्तितः सर्वकामप्रदं पुंसां भुक्तिमुक्तिप्रदं विदुः
उभयोस् तीरयोस् तत्र तीर्थान्य् आहुर् मनीषिणः षडशीतिसहस्राणि तेषु पुण्यं पुरोदितम्
वाराणस्या अपि मुने कुशतर्पणम् उत्तमम् नानेन सदृशं तीर्थं विद्यते सचराचरे
ब्रह्महत्यादिपापानां स्मरणाद् अपि नाशनम् तीर्थम् एतन् मुने प्रोक्तं स्वर्गद्वारं महीतले
मन्युतीर्थम् इति ख्यातं सर्वपापप्रणाशनम् सर्वकामप्रदं नॄणां स्मरणाद् अघनाशनम्
तस्य प्रभावं वक्ष्यामि शृणुष्वावहितो मुने देवानां दानवानां च संगरो ऽभून् मिथः पुरा
तत्राजयन् नैव सुरा दानवा जयिनो ऽभवन् पराङ्मुखाः सुरगणाः संगराद् गतचेतसः
माम् अभ्येत्य समूचुस् ते देहि नो ऽभयकारणम् तान् अहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः
तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् अनपायनिरायाससहजानन्दसुन्दरम्
लप्स्यते सर्वविबुधा जयहेतुर् महेश्वरात् तथेत्य् उक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम्
तपो ऽतप्यन्त केचिद् वै ननृतुश् च तथापरे अस्नापयंश् च केचिच् च ऽपूजयंश् च तथापरे
ततः प्रसन्नो भगवाञ् शूलपाणिर् महेश्वरः देवान् अथाब्रवीत् तुष्टो व्रियतां यद् अभीप्सितम्
देवा ऊचुः सुरपतिं विजयाय ददस्व नः पुरुषं परमश्लाघ्यं रणेषु पुरतः स्थितम्
यद्बाहुबलम् आश्रित्य भवामः सुखिनो वयम् तथेत्य् उवाच भगवान् देवान् प्रति महेश्वरः
आत्मनस् तेजसा कश्चिन् निर्मितः परमेष्ठिना मन्युनामानम् अत्युग्रं देवसैन्यपुरोगमम्
तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वम् आलयम् मन्युना सह चाभ्येत्य पुनर् युद्धाय तस्थिरे
युद्धे स्थित्वा तु दनुजैर् दैतेयैश् च महाबलैः विबुधा जातसंनद्धा मन्युम् ऊचुः पुरः स्थिताः
सामर्थ्यं तव पश्यामः पश्चाद् योत्स्यामहे परैः तस्माद् दर्शय चात्मानं मन्यो ऽस्माकं युयुत्सताम्
तद् देववचनं श्रुत्वा मन्युर् आह स्मयन्न् इव
जनिता मम देवेशः सर्वज्ञः सर्वदृक् प्रभुः यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम्
नैव कश्चिच् च तं वेत्ति यः सर्वं वेत्ति सर्वदा अमूर्तं मूर्तम् अप्य् एतद् वेत्ति कर्ता जगन्मयः
परो ऽसौ भगवान् साक्षात् तथा दिव्य् अन्तरिक्षगः कस् तस्य रूपं यो वेद कस्य कर्ता जगन्मयः
एवंविधाद् अहं जातो मां कथं वेत्तुम् अर्हथ अथवा द्रष्टुकामा वै भवन्तो मानुपश्यत
इत्य् उक्त्वा दर्शयाम् आस मन्यू रूपं स्वकं महत् तार्तीयचक्षुषोद्भूतं भवस्य परमेष्ठिनः
तेजसा संभृतं रूपं यतः सर्वं तद् उच्यते पौरुषं पुरुषेष्व् एव अहंकारश् च जन्तुषु
क्रोधः सर्वस्य यो भीम उपसंहारकृद् भवेत् तं शंकरप्रतिनिधिं ज्वलन्तं निजतेजसा