पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम्
तथेत्य् उक्त्वा स्तूयमाने देवदेवे जनार्दने मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि
सा च माम् अब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु तदा विज्ञाय पुरुषं जनकं मम चाव्ययम्
कालयूपस्य पार्श्वे तं गुणपाशैर् निवेशितम् बर्हिस्थितम् अहं प्रौक्षं पुरुषं जातम् अग्रतः
एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वम् अभूद् इदम् ब्राह्मणास् तु मुखात् तस्य ऽभवन् बाह्वोश् च क्षत्रियाः
मुखाद् इन्द्रस् तथाग्निश् च श्वसनः प्राणतो ऽभवत् दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गो ऽभवत् तदा
मनसश् चन्द्रमा जातः सूर्यो ऽभूच् चक्षुषस् तथा अन्तरिक्षं तथा नाभेर् ऊरुभ्यां विश एव च
पद्भ्यां शूद्रश् च संजातस् तथा भूमिर् अजायत ऋषयो रोमकूपेभ्य ओषध्यः केशतो ऽभवन्
ग्राम्यारण्याश् च पशवो नखेभ्यः सर्वतो ऽभवन् कृमिकीटपतंगादि पायूपस्थाद् अजायत
स्थावरं जङ्गमं किंचिद् दृश्यादृश्यं च किंचन तस्मात् सर्वम् अभूद् देवा मत्तश् चाप्य् अभवन् पुनः एतस्मिन्न् अन्तरे सैव विष्णोर् वाग् अब्रवीच् च माम्
सर्वं संपूर्णम् अभवत् सृष्टिर् जाता तथेप्सिता इदानीं जुहुधि ह्य् अग्नौ पात्राणि च समानि च
विसर्जय तथा यूपं प्रणीतां च कुशांस् तथा ऋत्विग्रूपं यज्ञरूपम् उद्देश्यं ध्येयम् एव च
स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय
तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने
पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस् तदा तत्र तत्र जगद्योनिम् अनुसंधाय पूरुषम्
मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ
शुक्लरूपधरो विष्णुर् भवेद् आहवनीयके श्यामो विष्णुर् दक्षिणाग्नेः पीतो गृहपतेः कवेः
सर्वकालं तेषु विष्णुर् अतो देशेषु संस्थितः न तेन रहितं किंचिद् विष्णुना विश्वयोनिना
प्रणीतायाः प्रणयनं मन्त्रैश् चाकरवं ततः प्रणीतोदकम् अप्य् एतत् प्रणीतेति नदी शुभा
व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैर् अथ मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः
पतितास् तत्र तीर्थानि जातानि गुणवन्ति च संजाता मुनिशार्दूल स्नानात् क्रतुफलप्रदा
यालंकृता सर्वकालं देवदेवेन शार्ङ्गिणा सोपानपङ्क्तिः सर्वेषां वैकुण्ठारोहणाय सा
संमार्जिताः कुशा यत्र पतिता भूतले शुभे कुशतर्पणम् आख्यातं बहुपुण्यफलप्रदम्
कुशैश् च तर्पिताः सर्वे कुशतर्पणम् उच्यते पश्चाच् च संगता तत्र गौतमी कारणान्तरात्
प्रणीतायां महाबुद्धे प्रणीतासंगमो ऽभवत् कुशतर्पणदेशे तु तत् तीर्थं कुशतर्पणम्
तत्रैव कल्पितो यूपो मया विन्ध्यस्य चोत्तरे विसृष्टो लोकपूज्यो ऽसौ विष्णोर् आसीत् समाश्रयः
अक्षयश् चाभवच् छ्रीमान् अक्षयो ऽसौ वटो ऽभवत् नित्यश् च कालरूपो ऽसौ स्मरणात् क्रतुपुण्यदः
मद्देवयजनं चेदं दण्डकारण्यम् उच्यते संपूर्णे तु क्रतौ विष्णुर् मया भक्त्या प्रसादितः
यो विराड् उच्यते वेदे यस्मान् मूर्तम् अजायत यस्माच् च मम चोत्पत्तिर् यस्येदं विकृतं जगत्
तम् अहं देवदेवेशम् अभिवन्द्य व्यसर्जयम् योजनानि चतुर्विंशन् मद्देवयजनं शुभम्