ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः यतिस् तु मोक्षम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः
तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम् देवयानीम् उशनसः सुतां भार्याम् अवाप सः
शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम्
अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः युक्तं मनोजवैः शुभ्रैर् येन कार्यं समुद्वहन्
स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् ययातिर् युधि दुर्धर्षस् तथा देवान् सदानवान्
सरथः कौरवाणां तु सर्वेषाम् अभवत् तदा संवर्तवसुनाम्नस् तु कौरवाज् जनमेजयात्
कुरोः पुत्रस्य राजेन्द्रराज्ञः पारीक्षितस्य ह जगाम स रथो नाशं शापाद् गर्गस्य धीमतः
गर्गस्य हि सुतं बालं स राजा जनमेजयः कालेन हिंसयाम् आस ब्रह्महत्याम् अवाप सः
स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित्
ततः स दुःखसंतप्तो नालभत् संविदं क्वचित् विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत
याजयाम् आस च ज्ञानी शौनको जनमेजयम् अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः
स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य च स च दिव्यरथो राज्ञो वशश् चेदिपतेस् तदा
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम्
ततो हत्वा जरासंधं भीमस् तं रथम् उत्तमम् प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम् विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस् तदा
ययातिर् दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् मध्ये पुरुं च राजानम् अभ्यषिञ्चत् स नाहुषः
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते प्रजास् तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः
धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः जरावान् अभवद् राजा भारम् आवेश्य बन्धुषु
निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः प्रीतिमान् अभवद् राजा ययातिर् अपराजितः
एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत् जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै
तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम् जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह
अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम्
जरायां बहवो दोषाः पानभोजनकारिताः तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै
स एवम् उक्तो यदुना राजा कोपसमन्वितः उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम्
क आश्रमस् तवान्यो ऽस्ति को वा धर्मो विधीयते माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः
एवम् उक्त्वा यदुं विप्राः शशापैनं स मन्युमान् अराज्या ते प्रजा मूढ भवित्रीति न संशयः
द्रुह्यं च तुर्वसुं चैवाप्य् अनुं च द्विजसत्तमाः एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि