मद्देवयजनं पुण्यं नाम्ना ब्रह्मगिरिः स्मृतः चतुरशीतिपर्यन्तं योजनानि महामुने
मद्देवयजनं पुण्यं पूर्वतो ब्रह्मणो गिरेः तत्र मध्ये वेदिका स्याद् गार्हपत्यो ऽस्य दक्षिणे
तत्र चाहवनीयस्य एवम् अग्नींस् त्व् अकल्पयम् विना पत्न्या न सिध्येत यज्ञः श्रुतिनिदर्शनात्
शरीरम् आत्मनो ऽहं वै द्वेधा चाकरवं मुने पूर्वार्धेन ततः पत्नी ममाभूद् यज्ञसिद्धये
उत्तरेण त्व् अहं तद्वद् अर्धो जाया इति श्रुतेः कालं वसन्तम् उत्कृष्टम् आज्यरूपेण नारद
अकल्पयं तथा चेध्मं ग्रीष्मं चापि शरद् धविः ऋतुं च प्रावृषं पुत्र तदा बर्हिर् अकल्पयम्
छन्दांसि सप्त वै तत्र तदा परिधयो ऽभवन् कलाकाष्ठानिमेषा हि समित्पात्रकुशाः स्मृताः
यो ऽनादिश् च त्व् अनन्तश् च स्वयं कालो ऽभवत् तदा यूपरूपेण देवर्षे योक्त्रं च पशुबन्धनम्
सत्त्वादित्रिगुणाः पाशा नैव तत्राभवत् पशुः ततो ऽहम् अब्रवं वाचं वैष्णवीम् अशरीरिणीम्
विनैव पशुना नायं यज्ञः परिसमाप्यते ततो माम् अवदद् देवी सैव नित्याशरीरिणी
पौरुषेणाथ सूक्तेन स्तुहि तं पुरुषं परम्
तथेत्य् उक्त्वा स्तूयमाने देवदेवे जनार्दने मम चोत्पादके भक्त्या सूक्तेन पुरुषस्य हि
सा च माम् अब्रवीद् देवी ब्रह्मन् मां त्वं पशुं कुरु तदा विज्ञाय पुरुषं जनकं मम चाव्ययम्
कालयूपस्य पार्श्वे तं गुणपाशैर् निवेशितम् बर्हिस्थितम् अहं प्रौक्षं पुरुषं जातम् अग्रतः
एतस्मिन्न् अन्तरे तत्र तस्मात् सर्वम् अभूद् इदम् ब्राह्मणास् तु मुखात् तस्य ऽभवन् बाह्वोश् च क्षत्रियाः
मुखाद् इन्द्रस् तथाग्निश् च श्वसनः प्राणतो ऽभवत् दिशः श्रोत्रात् तथा शीर्ष्णः सर्वः स्वर्गो ऽभवत् तदा
मनसश् चन्द्रमा जातः सूर्यो ऽभूच् चक्षुषस् तथा अन्तरिक्षं तथा नाभेर् ऊरुभ्यां विश एव च
पद्भ्यां शूद्रश् च संजातस् तथा भूमिर् अजायत ऋषयो रोमकूपेभ्य ओषध्यः केशतो ऽभवन्
ग्राम्यारण्याश् च पशवो नखेभ्यः सर्वतो ऽभवन् कृमिकीटपतंगादि पायूपस्थाद् अजायत
स्थावरं जङ्गमं किंचिद् दृश्यादृश्यं च किंचन तस्मात् सर्वम् अभूद् देवा मत्तश् चाप्य् अभवन् पुनः एतस्मिन्न् अन्तरे सैव विष्णोर् वाग् अब्रवीच् च माम्
सर्वं संपूर्णम् अभवत् सृष्टिर् जाता तथेप्सिता इदानीं जुहुधि ह्य् अग्नौ पात्राणि च समानि च
विसर्जय तथा यूपं प्रणीतां च कुशांस् तथा ऋत्विग्रूपं यज्ञरूपम् उद्देश्यं ध्येयम् एव च
स्रुवं च पुरुषं पाशान् सर्वं ब्रह्मन् विसर्जय
तद्वाक्यसमकालं तु क्रमशो यज्ञयोनिषु गार्हपत्ये दक्षिणाग्नौ तथा चैव महामुने
पूर्वस्मिन्न् अपि चैवाग्नौ क्रमशो जुह्वतस् तदा तत्र तत्र जगद्योनिम् अनुसंधाय पूरुषम्
मन्त्रपूतं शुचिः सम्यग् यज्ञदेवो जगन्मयः लोकनाथो विश्वकर्ता कुण्डानां तत्र संनिधौ
शुक्लरूपधरो विष्णुर् भवेद् आहवनीयके श्यामो विष्णुर् दक्षिणाग्नेः पीतो गृहपतेः कवेः
सर्वकालं तेषु विष्णुर् अतो देशेषु संस्थितः न तेन रहितं किंचिद् विष्णुना विश्वयोनिना
प्रणीतायाः प्रणयनं मन्त्रैश् चाकरवं ततः प्रणीतोदकम् अप्य् एतत् प्रणीतेति नदी शुभा
व्यसर्जयं प्रणीतां तां मार्जयित्वा कुशैर् अथ मार्जने क्रियमाणे तु प्रणीतोदकबिन्दवः