कुशतर्पणम् आख्यातं प्रणीतासंगमं तथा तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम्
तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः
यदङ्घ्रिभ्यो ऽभवन् नद्यो गोदाभीमरथीमुखाः यत्राभवत् तद् विरजम् एकवीरा च यत्र सा
न तस्य महिमा कैश्चिद् अपि शक्यो ऽनुवर्णितुम् तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः
गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् यन् न जानन्ति मुनयो देवाश् च पितरो ऽसुराः
तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् परः स पुरुषो ज्ञेयो ह्य् अव्यक्तो ऽक्षर एव तु
अपरश् च क्षरस् तस्मात् प्रकृत्यन्वित एव च निराकारात् सावयवः पुरुषः समजायत
तस्माद् आपः समुद्भूता अद्भ्यश् च पुरुषस् तथा ताभ्याम् अब्जं समुद्भूतं तत्राहम् अभवं मुने
पृथिवी वायुर् आकाश आपो ज्योतिस् तथैव च एते मत्तः पूर्वतरा एकदैवाभवन् मुने
एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् नैव वेदास् तदा चासन् नाहं द्रष्टास्मि किंचन
यस्माद् अहं समुद्भूतो न पश्येयं तम् अप्य् अथ तूष्णीं स्थिते मयि तदा अश्रौषं वाचम् उत्तमाम्
ब्रह्मन् कुरु जगत्सृष्टिं स्थावरस्य चरस्य च
ततो ऽहम् अब्रवं वाचं परुषां तत्र नारद कथं स्रक्ष्ये क्व वा स्रक्ष्ये केन स्रक्ष्य इदं जगत्
सैव वाग् अब्रवीद् दैवी प्रकृतिर् याभिधीयते विष्णुना प्रेरिता माता जगदीशा जगन्मयी
यज्ञं कुरु ततः शक्तिस् ते भवित्री न संशयः यज्ञो वै विष्णुर् इत्य् एषा श्रुतिर् ब्रह्मन् सनातनी
किं यज्वनाम् असाध्यं स्याद् इह लोके परत्र च
पुनस् ताम् अब्रवं देवीं क्व वा केनेति तद् वद यज्ञः कार्यो महाभागे ततः सोवाच मां प्रति
ओंकारभूता या देवी मातृकल्पा जगन्मयी कर्मभूमौ यजस्वेह यज्ञेशं यज्ञपूरुषम्
स एव साधनं ते स्यात् तेन तं यज सुव्रत यज्ञः स्वाहा स्वधा मन्त्रा ब्राह्मणा हविरादिकम्
हरिर् एवाखिलं तेन सर्वं विष्णोर् अवाप्यते
पुनस् ताम् अब्रवं देवीं कर्मभूः क्व विधीयते तदा नारद नैवासीद् भागीरथ्य् अथ नर्मदा
यमुना नैव तापी सा सरस्वत्य् अथ गौतमी समुद्रो वा नदः कश्चिन् न सरः सरितो ऽमलाः सा शक्तिः पुनर् अप्य् एवं माम् उवाच पुनः पुनः
सुमेरोर् दक्षिणे पार्श्वे तथा हिमवतो गिरेः दक्षिणे चापि विन्ध्यस्य सह्याच् चैवाथ दक्षिणे सर्वस्य सर्वकाले तु कर्मभूमिः शुभोदया
तत् तु वाक्यम् अथो श्रुत्वा त्यक्त्वा मेरुं महागिरिम् तं प्रदेशम् अथागत्य स्थातव्यं क्वेत्य् अचिन्तयम् ततो माम् अब्रवीत् सैव विष्णोर् वाण्य् अशरीरिणी
इतो गच्छ इतस् तिष्ठ तथोपविश चात्र हि संकल्पं कुरु यज्ञस्य स ते यज्ञः समाप्यते
कृते चैवाथ संकल्पे यज्ञार्थे सुरसत्तम यद् वदन्त्य् अखिला वेदा विधे तत् तत् समाचर
इतिहासपुराणानि यद् अन्यच् छब्दगोचरम् स्वतो मुखे मम प्रायाद् अभूच् च स्मृतिगोचरम्
वेदार्थश् च मया सर्वो ज्ञातो ऽसौ तत्क्षणेन च ततः पुरुषसूक्तं तद् अस्मरं लोकविश्रुतम्
यज्ञोपकरणं सर्वं तद् उक्तं च त्व् अकल्पयम् तदुक्तेन प्रकारेण यज्ञपात्राण्य् अकल्पयम्
अहं स्थित्वा यत्र देशे शुचिर् भूत्वा यतात्मवान् दीक्षितो विप्रदेशो ऽसौ मन्नाम्ना तु प्रकीर्तितः