स्वर्गः सुराणाम् अभवद् असुराणाम् इलाभवत् कर्मभूमिम् अवष्टभ्य असुराः सर्वतो ऽभवन्
देवानां यज्ञभागांश् च दातॄन् घ्नन्त्य् असुरास् ततः ततः सुरगणाः सर्वे यज्ञभागैर् विना कृताः
व्यथिता माम् उपाजग्मुः किं कृत्यम् इति चाब्रुवन् मया चोक्ताः सुरगणा युद्धे जित्वासुरान् बलात्
भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च तथेत्य् उक्त्वा गता देवा भूमिं ते समरार्थिनः
दैत्याश् च दानवाश् चैव राक्षसा बलदर्पिताः एकीभूत्वा ययुस् ते ऽपि जयिनो युद्धकाङ्क्षिणः
अहिर् वृत्रो बलिस् त्वाष्ट्रिर् नमुचिः शम्बरो मयः एते चान्ये च बहवो योद्धारो बलदर्पिताः
अग्निर् इन्द्रो ऽथ वरुणस् त्वष्टा पूषा तथाश्विनौ मरुतो लोकपालाश् च नानायुद्धविशारदाः
ते दानवाः सर्व एव याम्यां वै दिशि संगरे अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः
त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराभवत् तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम्
सर्वेषां मेलनं यत्र पर्वतो मलयस् तु सः मलयस्यापि देशो ऽसौ देवारीणाम् अभूत् तदा
देवानां गौतमीतीरे तत्र संनिहितः शिवः इति तेषां समायोगो देवानाम् अभवत् किल
देवाः स्वरथम् आरूढास् तत्र तत्र समागमन् गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः
प्रसन्नाभीष्टदा या स्यात् पितॄणाम् अखिलस्य तु ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् अभयं चिन्तयाम् आसुस् ते सर्वे ऽथ परस्परम्
अत्राप्य् उपायः को ऽस्माकं निर्जितानां परैर् हठात् एकम् एवात्र नः श्रेयो विजयो वाथवा मृतिः सपत्नैर् अभिभूतानां जीवितं धिङ् मनस्विनाम्
एतस्मिन्न् अन्तरे पुत्र वाग् उवाचाशरीरिणी
क्लेशेनालं सुरगणा गौतमीम् आशु गच्छत भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ
गोदावर्यास् तयोश् चैव प्रसादात् किं तु दुष्करम्
प्रसन्नाभ्यां हरीशाभ्यां देवा जयम् अभीप्सितम् अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः
यत्र देवागमो जातस् तत् तीर्थं तेन विश्रुतम् देवागमं प्रशंसन्ति मुनयस् तत्त्वदर्शिनः
तत्राशीतिसहस्राणि शिवलिङ्गानि नारद देवागमः पर्वतो ऽसौ प्रिय इत्य् अपि कथ्यते ततः प्रभृति तत् तीर्थं देवप्रियम् अतो विदुः
कुशतर्पणम् आख्यातं प्रणीतासंगमं तथा तीर्थं सर्वेषु लोकेषु भुक्तिमुक्तिप्रदायकम्
तस्य स्वरूपं वक्ष्यामि शृणु पापहरं शुभम् विन्ध्यस्य दक्षिणे पार्श्वे सह्यो नाम महागिरिः
यदङ्घ्रिभ्यो ऽभवन् नद्यो गोदाभीमरथीमुखाः यत्राभवत् तद् विरजम् एकवीरा च यत्र सा
न तस्य महिमा कैश्चिद् अपि शक्यो ऽनुवर्णितुम् तस्मिन् गिरौ पुण्यदेशे शृणु नारद यत्नतः
गुह्याद् गुह्यतरं वक्ष्ये साक्षाद् वेदोदितं शुभम् यन् न जानन्ति मुनयो देवाश् च पितरो ऽसुराः
तद् अहं प्रीतये वक्ष्ये श्रवणात् सर्वकामदम् परः स पुरुषो ज्ञेयो ह्य् अव्यक्तो ऽक्षर एव तु
अपरश् च क्षरस् तस्मात् प्रकृत्यन्वित एव च निराकारात् सावयवः पुरुषः समजायत
तस्माद् आपः समुद्भूता अद्भ्यश् च पुरुषस् तथा ताभ्याम् अब्जं समुद्भूतं तत्राहम् अभवं मुने
पृथिवी वायुर् आकाश आपो ज्योतिस् तथैव च एते मत्तः पूर्वतरा एकदैवाभवन् मुने
एतान् एव प्रपश्यामि नान्यत् स्थावरजङ्गमम् नैव वेदास् तदा चासन् नाहं द्रष्टास्मि किंचन