विनता स्वसुतं प्राह विहगानाम् अधीश्वरम् नमस्कर्तुम् अथेच्छन्ति नागाः स्वामित्वम् आगताः
भास्वन्तम् इत्य् उवाचेयं मां सर्पजननी हठात् तथेत्य् उक्त्वा स गरुडो माम् आरोहन्तु पन्नगाः
तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् शनैः शनैर् उपगमद् यत्र देवो दिवाकरः ते दह्यमानास् तीक्ष्णेन भानुतापेन विव्यथुः
निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा यामस् त्वया वा गरुड विहाय त्वाम् अथापि वा
एवं नागैर् उच्यमान आदित्यं दर्शयामि वः इत्य् उक्त्वा गगनं शीघ्रं जगामादित्यसंमुखः
दग्धभोगा निपेतुस् ते द्वीपं तं वीरणं प्रति बहवः शतसाहस्राः पीडिता दग्धविग्रहाः
पुत्राणाम् आर्तसंनादं पतितानां महीतले आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला
उवाच विनतां कद्रूस् तव पुत्रो ऽतिदुष्कृतम् कृतवान् अतिदुर्मेधा येषां शान्तिर् न विद्यते
नान्यथा कर्तुम् आयाति स्वामिवाक्यं फणीश्वरः स काश्यपो बृहत्तेजा यद्य् अत्र स्याद् अनामयम्
भवेच् चैवं कथं शान्तिः पुत्राणां मम भामिनि कद्र्वास् तद् वचनं श्रुत्वा विनता ह्य् अतिभीतवत्
पुत्रम् आह महात्मानं गरुडं विहगाधिपम्
नेदं युक्ततरं पुत्र भूषणं विनयेन हि वर्तितुं युक्तम् इत्य् उक्तं वैपरीत्यं न युज्यते
नामित्रेष्व् अपि कर्तव्यं सद्भिर् जिह्मं कदाचन श्रोत्रिये चान्त्यजे वापि समं चन्द्रः प्रकाशते
कुर्वन्त्य् अनिष्टं कपटैस् त एव मम पुत्रक प्रसह्य कर्तुं ये साक्षाद् अशक्ताः पुरुषाधमाः
विनता च ततः प्राह कद्रूं तां सर्पमातरम्
किं कृत्वा शान्तिर् अभ्येति पुत्राणां ते करोमि तत् जरया तु गृहीतास् ते वद शान्तिं करोमि तत्
कद्रूर् अप्य् आह विनतां रसातलगतं पयः तेनाभिषेचितानां मे पुत्राणां शान्तिर् एष्यति
कद्र्वास् तद् वचनं श्रुत्वा रसातलगतं पयः क्षणेनैव समानीय नागांस् तान् अभ्यषेचयत् ततः प्रोवाच गरुडो मघवानं शतक्रतुम्
मेघाश् चाप्य् अत्र वर्षन्तु त्रैलोक्यस्योपकारिणः
तथा ववर्ष पर्जन्यो नागानाम् अभवच् छिवम् रसातलभवं गाङ्गं नागसंजीवनं पयः
जराशोकविनाशार्थम् आनीतं गरुडेन यत् यत्राभिषेचिता नागास् तन् नागालयम् उच्यते
गरुडेन यतो वारि आनीतं तद् रसातलात् तद् गाङ्गं वारि सर्वेषां सर्वपापप्रणाशनम्
जराया वारणं यस्मान् नागानाम् अभवच् छिवम् रसातलभवं गाङ्गं नागसंजीवनं यतः
जराशोकविनाशार्थं गङ्गाया दक्षिणे तटे साक्षाद् अमृतसंवाहा वञ्जरा साभवन् नदी
जरादारिद्र्यसंतापहारिणी क्लेशवारिणी रसातलभवा गङ्गा मर्त्यलोकभवा तु या
तयोश् च संगमो यः स्यात् किं पुनस् तत्र वर्ण्यते यस्यानुस्मरणाद् एव नाशं यान्त्य् अघसंचयाः
तत्र च स्नानदानानां फलं को वक्तुम् ईश्वरः सपादं तत्र तीर्थानां लक्षम् आहुर् मनीषिणः
सर्वसंपत्तिदातॄणां सर्वपापौघहारिणाम् वञ्जरासंगमसमं तीर्थं क्वापि न विद्यते यदनुस्मरणेनापि विपद्यन्ते विपत्तयः
देवागमं नाम तीर्थं सर्वकामप्रदं शिवम् भुक्तिमुक्तिप्रदं नॄणां पितॄणां तृप्तिकारकम्
तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद देवानाम् असुराणां च स्पर्धाभूद् धनहेतवे