शापस्यान्ते महाबाहुर् हत्वा क्षेमकराक्षसम् रम्यां निवेशयाम् आस पुरीं वाराणसीं पुनः
संनतेर् अपि दायादः सुनीथो नाम धार्मिकः सुनीथस्य तु दायादः क्षेमो नाम महायशाः
क्षेमस्य केतुमान् पुत्रः सुकेतुस् तस्य चात्मजः सुकेतोस् तनयश् चापि धर्मकेतुर् इति स्मृतः
धर्मकेतोस् तु दायादः सत्यकेतुर् महारथः सत्यकेतुसुतश् चापि विभुर् नाम प्रजेश्वरः
आनर्तस् तु विभोः पुत्रः सुकुमारश् च तत्सुतः सुकुमारस्य पुत्रस् तु धृष्टकेतुः सुधार्मिकः
धृष्टकेतोस् तु दायादो वेणुहोत्रः प्रजेश्वरः वेणुहोत्रसुतश् चापि भार्गो नाम प्रजेश्वरः
वत्सस्य वत्सभूमिस् तु भार्गभूमिस् तु भार्गजः एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गव
ब्राह्मणाः क्षत्रिया वैश्यास् त्रयः पुत्राः सहस्रशः इत्य् एते काश्यपाः प्रोक्ता नहुषस्य निबोधत
उत्पन्नाः पितृकन्यायां विरजायां महौजसः नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः
यतिर् ययातिः संयातिर् आयातिः पार्श्वको ऽभवत् यतिर् ज्येष्ठस् तु तेषां वै ययातिस् तु ततः परम्
ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः यतिस् तु मोक्षम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः
तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम् देवयानीम् उशनसः सुतां भार्याम् अवाप सः
शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम्
अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः युक्तं मनोजवैः शुभ्रैर् येन कार्यं समुद्वहन्
स तेन रथमुख्येन षड्रात्रेणाजयन् महीम् ययातिर् युधि दुर्धर्षस् तथा देवान् सदानवान्
सरथः कौरवाणां तु सर्वेषाम् अभवत् तदा संवर्तवसुनाम्नस् तु कौरवाज् जनमेजयात्
कुरोः पुत्रस्य राजेन्द्रराज्ञः पारीक्षितस्य ह जगाम स रथो नाशं शापाद् गर्गस्य धीमतः
गर्गस्य हि सुतं बालं स राजा जनमेजयः कालेन हिंसयाम् आस ब्रह्महत्याम् अवाप सः
स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित्
ततः स दुःखसंतप्तो नालभत् संविदं क्वचित् विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत
याजयाम् आस च ज्ञानी शौनको जनमेजयम् अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः
स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य च स च दिव्यरथो राज्ञो वशश् चेदिपतेस् तदा
दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम्
ततो हत्वा जरासंधं भीमस् तं रथम् उत्तमम् प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः
सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम् विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस् तदा
ययातिर् दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत् मध्ये पुरुं च राजानम् अभ्यषिञ्चत् स नाहुषः
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते प्रजास् तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः
धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः जरावान् अभवद् राजा भारम् आवेश्य बन्धुषु