दासत्वम् अगमत् पूर्वं नागानां गरुडः खगः मातृदास्यात् तदा दुःखपरिसंतप्तमानसः कदाचिच् चिन्तयाम् आस रहः स्थित्वा विनिश्वसन्
त एव धन्या लोके ऽस्मिन् कृतपुण्यास् त एव हि नान्यसेवा कृता यैस् तु न येषां व्यसनागमः
सुखं तिष्ठन्ति गायन्ति स्वपन्ति च हसन्ति च स्वदेहप्रभवो धन्या धिग् धिग् अन्यवशे स्थितान्
इति चिन्तासमाविष्टो जननीम् एत्य दुःखितः पर्यपृच्छद् अमेयात्मा वैनतेयो ऽथ मातरम्
कस्यापराधान् मातस् त्वं पितुर् वा मम वान्यतः दासीत्वम् आप्ता वद तत्कारणं मम पृच्छतः
साब्रवीत् पुत्रम् आत्मीयम् अरुणस्यानुजं प्रियम्
नैव कस्यापराधो ऽस्ति स्वापराधो मयोदितः यस्या वाक्यं विपर्येति सा दासी स्यान् मयोदितम्
कद्रूश् चापि तथैवाहं सा मया संयुता ययौ कद्र्वा ममाभवद् वादश् छद्मनाहं तया जिता
विधिर् हि बलवांस् तात कां कां चेष्टां न चेष्टते एवं दासीत्वम् अगमं कद्र्वाः कश्यपनन्दन यदा दासी तु जाताहं दासो ऽभूस् त्वं द्विजन्मज
तूष्णीं तदा बभूवासौ गरुडो ऽतीव दुःखितः न किंचिद् ऊचे जननीं चिन्तयन् भवितव्यताम्
कद्रूः कदाचित् सा प्राह पुत्राणां हितम् इच्छती आत्मनो भूतिम् इच्छन्ती विनतां खगमातरम्
पुत्रः सूर्यं नमस्कर्तुं तव यात्य् अनिवारितः अहो लोकत्रये ऽप्य् अस्मिन् धन्यासि बत दास्य् अपि
स्वदुःखं गूहमाना सा कद्रूं प्राह सुविस्मिता
तव पुत्रास् तु किम् इति रविं द्रष्टुं न यान्ति च
पुत्रान् मदीयान् सुभगे नय नागालयं प्रति समुद्रस्य समीपे तु तद् आस्ते शीतलं सरः
सुपर्णस् त्व् अवहन् नागान् कद्रूं च विनता तथा ततः प्रोवाच मुदिता वैनतेयस्य मातरम्
सुराणां नेतु निलयं गरुडो मत्सुतान् इति पुनः प्राह सर्पमाता गरुडं विनयान्वितम्
पुत्रा मे द्रष्टुम् इच्छन्ति हंसं त्रिजगतां गुरुम् नमस्कृत्वा ततः सूर्यम् एष्यन्ति निलयं मम हण्डे त्वं नय पुत्रान् मे सूर्यमण्डलम् अन्वहम्
सा वेपमाना विनता दीना कद्रूम् अभाषत
नाहं क्षमा सर्पमातः पुत्रो मे नेष्यते सुतान् दृष्ट्वा दिनकरं देवं पुनर् एव प्रयान्तु ते
विनता स्वसुतं प्राह विहगानाम् अधीश्वरम् नमस्कर्तुम् अथेच्छन्ति नागाः स्वामित्वम् आगताः
भास्वन्तम् इत्य् उवाचेयं मां सर्पजननी हठात् तथेत्य् उक्त्वा स गरुडो माम् आरोहन्तु पन्नगाः
तदारूढं सर्पसैन्यं गरुडं विहगाधिपम् शनैः शनैर् उपगमद् यत्र देवो दिवाकरः ते दह्यमानास् तीक्ष्णेन भानुतापेन विव्यथुः
निवर्तस्व महाप्राज्ञ पतंगाय नमो नमः अलं सूर्यस्य सदनं दग्धाः सूर्यस्य तेजसा यामस् त्वया वा गरुड विहाय त्वाम् अथापि वा
एवं नागैर् उच्यमान आदित्यं दर्शयामि वः इत्य् उक्त्वा गगनं शीघ्रं जगामादित्यसंमुखः
दग्धभोगा निपेतुस् ते द्वीपं तं वीरणं प्रति बहवः शतसाहस्राः पीडिता दग्धविग्रहाः
पुत्राणाम् आर्तसंनादं पतितानां महीतले आश्वासितुं समायाता तान् सा कद्रूः सुविह्वला
उवाच विनतां कद्रूस् तव पुत्रो ऽतिदुष्कृतम् कृतवान् अतिदुर्मेधा येषां शान्तिर् न विद्यते
नान्यथा कर्तुम् आयाति स्वामिवाक्यं फणीश्वरः स काश्यपो बृहत्तेजा यद्य् अत्र स्याद् अनामयम्
भवेच् चैवं कथं शान्तिः पुत्राणां मम भामिनि कद्र्वास् तद् वचनं श्रुत्वा विनता ह्य् अतिभीतवत्