दश मे मानसाः पुत्राः स्रष्टारो जगताम् अपि अन्तं जिज्ञासवस् ते वै पृथिव्या जग्मुर् ओजसा
पुनः सृष्टाः पुनस् ते ऽपि यातास् तान् समवेक्षितुम् नैव ते ऽपि समायाता ये गतास् ते गता गताः
तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः
ते ऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम्
सर्वेभ्यो ह्य् अधिका माता गुरुभ्यो गौरवेण हि तदा नारद कोपेन सा शशाप तदात्मजान्
माम् अनादृत्य ये पुत्राः प्रवृत्ताश् चरितुं तपः सर्वैर् अपि प्रकारैस् तन् न तेषां सिद्धिम् एष्यति
नानादेशांश् च चिन्वानास् तपःसिद्धिं न यान्ति च विघ्नम् अन्वेति तान् सर्वान् इतश् चेतश् च धावतः
क्वापि तद् राक्षसैर् विघ्नं क्वापि तन् मानुषैर् अभूत् प्रमदाभिः क्वचिच् चापि क्वापि तद्देहदोषतः
एवं तु भ्रममाणास् ते ययुः सर्वे तपोनिधिम् अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम्
नमस्कृत्वा ह्य् आङ्गिरसा ह्य् अग्निवंशसमुद्भवाः दक्षिणाशापतिं शान्तं विनीताः प्रष्टुम् उद्यताः
भगवन् केन दोषेण तपो ऽस्माकं न सिध्यति नानाविधैर् अप्य् उपायैः कुर्वतां च पुनः पुनः
किं कुर्मः कः प्रकारो ऽत्र तपस्य् एव भवाम किम् उपायं ब्रूहि विप्रेन्द्र ज्येष्ठो ऽसि तपसा ध्रुवम्
ज्ञातासि ज्ञानिनां ब्रह्मन् वक्तासि वदतां वरः शान्तो ऽसि यमिनां नित्यं दयावान् प्रियकृत् तथा
अक्रोधनश् च न द्वेष्टा तस्माद् ब्रूहि विवक्षितम् साहंकारा दयाहीना गुरुसेवाविवर्जिताः असत्यवादिनः क्रूरा न ते तत्त्वं विजानते
अगस्त्यः प्राह तान् सर्वान् क्षणं ध्यात्वा शनैः शनैः
शान्तात्मानो भवन्तो वै स्रष्टारो ब्रह्मणा कृताः न पर्याप्तं तपश् चाभूत् स्मरध्वं स्मयकारणम्
ब्रह्मणा निर्मिताः पूर्वं ये गताः सुखम् एधते ये गताः पुनर् अन्वेष्टुं ते च त्व् आङ्गिरसो ऽभवन्
ते यूयं च पुनः काले याता याताः शनैः शनैः प्रजापतेर् अप्य् अधिका भवितारो न संशयः
इतो यान्तु तपस् तप्तुं गङ्गां त्रैलोक्यपावनीम् नोपायो ऽन्यो ऽस्ति संसारे विना गङ्गां शिवप्रियाम्
तत्राश्रमे पुण्यदेशे ज्ञानदं पूजयिष्यथ स च्छेदयिष्यत्य् अखिलं संशयं वो महामतिः न सिद्धिः क्वापि केषांचिद् विना सद्गुरुणा यतः
ते तम् ऊचुर् मुनिवरं ज्ञानदः को ऽभिधीयते ब्रह्मा विष्णुर् महेशो वा आदित्यो वापि चन्द्रमाः
अग्निश् च वरुणः कः स्याज् ज्ञानदो मुनिसत्तम अगस्त्यः पुनर् अप्य् आह ज्ञानदः श्रूयताम् अयम्
या आपः सो ऽग्निर् इत्य् उक्तो यो ऽग्निः सूर्यः स उच्यते यश् च सूर्यः स वै विष्णुर् यश् च विष्णुः स भास्करः
यश् च ब्रह्मा स वै रुद्रो यो रुद्रः सर्वम् एव तत् यस्य सर्वं तु तज् ज्ञानं ज्ञानदः सो ऽत्र कीर्त्यते
देशिकप्रेरकव्याख्याकृदुपाध्यायदेहदाः गुरवः सन्ति बहवस् तेषां ज्ञानप्रदो महान्
तद् एव ज्ञानम् अत्रोक्तं येन भेदो विहन्यते एक एवाद्वयः शंभुर् इन्द्रमित्राग्निनामभिः वदन्ति बहुधा विप्रा भ्रान्तोपकृतिहेतवे
एतच् छ्रुत्वा मुनेर् वाक्यं गाथा गायन्त एव ते जग्मुः पञ्चोत्तरां गङ्गां पञ्च जग्मुश् च दक्षिणाम्
अगस्त्येनोदितान् देवान् पूजयन्तो यथाविधि आसनेषु विशेषेण ह्य् आसीनास् तत्त्वचिन्तकाः
तेषां सर्वे सुरगणाः प्रीतिमन्तो ऽभवन् मुने स्रष्टृत्वं तु युगादौ यत् कल्पितं विश्वयोनिना
अधर्माणां निवृत्त्यर्थं वेदानां स्थापनाय च लोकानाम् उपकारार्थं धर्मकामार्थसिद्धये