लङ्का च भग्ना सगणं हि रक्षो हतं हि यस्याः परिसेवनेन यां गौतमो देववरं प्रपूज्य शिवं शरण्यं सजटाम् अवाप
सेयं जनित्री सकलेप्सितानाम् अमङ्गलानाम् अपि संनिहन्त्री जगत्पवित्रीकरणैकदक्षा दृष्टाद्य साक्षात् सरितां सवित्री
एतत् समाकर्ण्य वचो नृपस्य तत्राप्लवन् हरयः सर्व एव पूजां चक्रुर् विधिवत् ते पृथक् च पुष्पैर् अनेकैः सर्वलोकोपहारैः
संपूज्य शर्वं नृपतिर् यथावत् स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः ते वानरा मुदिताः सर्व एव नृत्यं च गीतं च तथैव चक्रुः
सुखोषितस् तां रजनीं महात्मा प्रियानुयुक्तः संवृतः प्रेमवद्भिः दुःखं जहौ सर्वम् अमित्रसंभवं किं नाप्यते गौतमीसेवनेन
सविस्मयः पश्यति भृत्यवर्गं गोदावरीं स्तौति च संप्रहृष्टः संमानयन् भृत्यगणं समग्रम् अवाप रामः कमपि प्रमोदम्
नाद्यापि तृप्तास् तु भवाम तीर्थे कंचिच् च कालं निवसाम चात्र वत्स्याम चात्रैव पराश् चतस्रो रात्रीर् अथो याम वृतास् त्व् अयोध्याम्
तस्याथ वाक्यं हरयो ऽनुमेनिरे तथैव रात्रीर् अपराश् चतस्रः संपूज्य देवं सकलेश्वरं तं भ्रातृप्रियं तीर्थम् अथो जगाम
सिद्धेश्वरं नाम जगत्प्रसिद्धं यस्य प्रभावात् प्रबलो दशास्यः एवं तु पञ्चाहम् अथोषिरे ते स्वं स्वं प्रतिष्ठापितलिङ्गम् अर्च्य
शुश्रूषणं तत्र करोति वायोः सुतो ऽनुगामी हनुमान् नृपस्य गच्छन् नृपेन्द्रो हनुमन्तम् आह लिङ्गानि सर्वाणि विसर्जयस्व
मत्स्थापितान्य् उत्तममन्त्रविद्भिस् तथेतरैः शंकरकिंकरैश् च नोद्वास्य पूजां परशंकरेण बाह्यं समायोज्यम् अहो भवस्य
तिष्ठन्ति सुस्थास् तदनादरेण ते खड्गपत्त्रादिषु संभवन्ति ये ऽश्रद्दधानाः शिवलिङ्गपूजां विधाय कृत्यं न समाचरन्ति
यथोचितं ते यमकिंकरैर् हि पच्यन्त एवाखिलदुर्गतीषु रामाज्ञया वायुसुतो जगाम दोर्भ्यां न चोत्पाटयितुं शशाक
ततः स्वपुच्छेन ग्रहीतुकामः संवेष्ट्य लिङ्गं तु विसृष्टकामः नैवाशकत् तन् महद् अद्भुतं स्यात् कपीश्वराणां नृपतेस् तथैव
कश् चालयेल् लब्धमहानुभावं महेशलिङ्गं पुरुषो मनस्वी तन् निश्चलं प्रेक्ष्य महानुभावो नृपप्रवीरः सहसा जगाम
विप्रान् अथामन्त्र्य विधाय पूजां प्रदक्षिणीकृत्य च रामचन्द्रः शुद्धातिशुद्धेन हृदाखिलैस् तैर् लिङ्गानि सर्वाणि ननाम रामः
किष्किन्धवासिप्रवरैर् अशेषैः संसेवितं तीर्थम् अतो बभूव अत्राप्लवाद् एव महान्ति पापान्य् अपि क्षयं यान्ति न संशयो ऽत्र
पुनश् च गङ्गां प्रणनाम भक्त्या प्रसीद मातर् मम गौतमीति जल्पन् मुहुर् विस्मितचित्तवृत्तिर् विलोकयन् प्रणमन् गौतमीं ताम्
ततः प्रभृत्य् एतद् अतीव पुण्यं किष्किन्धतीर्थं विबुधा वदन्ति पठेत् स्मरेद् वापि शृणोति भक्त्या पापापहं किं पुनः स्नानदानैः
व्यासतीर्थम् इति ख्यातं प्राचेतसम् अतः परम् नातः परतरं किंचित् पावनं सर्वसिद्धिदम्
दश मे मानसाः पुत्राः स्रष्टारो जगताम् अपि अन्तं जिज्ञासवस् ते वै पृथिव्या जग्मुर् ओजसा
पुनः सृष्टाः पुनस् ते ऽपि यातास् तान् समवेक्षितुम् नैव ते ऽपि समायाता ये गतास् ते गता गताः
तदोत्पन्ना महाप्राज्ञा दिव्या आङ्गिरसो मुने वेदवेदाङ्गतत्त्वज्ञाः सर्वशास्त्रविशारदाः
ते ऽनुज्ञाता अङ्गिरसा गुरुं नत्वा तपोधनाः तपसे निश्चिताः सर्वे नैव पृष्ट्वा तु मातरम्
सर्वेभ्यो ह्य् अधिका माता गुरुभ्यो गौरवेण हि तदा नारद कोपेन सा शशाप तदात्मजान्
माम् अनादृत्य ये पुत्राः प्रवृत्ताश् चरितुं तपः सर्वैर् अपि प्रकारैस् तन् न तेषां सिद्धिम् एष्यति
नानादेशांश् च चिन्वानास् तपःसिद्धिं न यान्ति च विघ्नम् अन्वेति तान् सर्वान् इतश् चेतश् च धावतः
क्वापि तद् राक्षसैर् विघ्नं क्वापि तन् मानुषैर् अभूत् प्रमदाभिः क्वचिच् चापि क्वापि तद्देहदोषतः
एवं तु भ्रममाणास् ते ययुः सर्वे तपोनिधिम् अगस्त्यं तपतां श्रेष्ठं कुम्भयोनिं जगद्गुरुम्
नमस्कृत्वा ह्य् आङ्गिरसा ह्य् अग्निवंशसमुद्भवाः दक्षिणाशापतिं शान्तं विनीताः प्रष्टुम् उद्यताः