षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित्
पापम् अस्ति महारौद्रं न स्वीकुर्मः पुनस् तु ताम् एवं यदा स्वदत्ताया हरणे किं तदा भवेत्
तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् तथेत्य् उक्ते तु ते देवाः कपिलां शुभलक्षणाम्
गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस् तिष्ठति मूर्तिमान्
कपिलासंगमं तच् च सर्वाघौघविनाशनम् तत्राभवद् दानतोयाद् आपगा कपिलाभिधा
सस्यवत्या अपि भुवो दानाद् गोदानम् उत्तमम् लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः
यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् पुण्यदं तत्र तीर्थानां शतम् उक्तं मनीषिभिः
तत्र स्नानेन दानेन भूमिदानफलं लभेत् संगता गङ्गया तच् च कपिलासंगमं विदुः
शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात्
तत्रेदं वृत्तम् आख्यास्ये भुक्तिमुक्तिप्रदायकम् पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः
ब्रह्माण्डागारसंभूता राक्षसा बहुरूपिणः ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः
तदाहम् अब्रवं विष्णुं रक्षणाय जगद्गुरुम् स विष्णुस् तानि रक्षांसि हन्तुं चक्रेण चोद्यतः
छित्त्वा चक्रेण रक्षांसि शङ्खम् आपूरयत् तदा निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरम् एव च
ततो हर्षप्रकर्षेण शङ्खम् आपूरयद् धरिः ततो रक्षांसि सर्वाणि ह्य् अनीनशुर् अशेषतः
यत्रैतद् वृत्तम् अखिलं विष्णुशङ्खप्रभावतः शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम्
सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम्
स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् तीर्थानाम् अयुतं तत्र सर्वपापनुदं मुने
तीर्थान्य् अयुतसंख्यानि सर्वपापहराणि च येषां प्रभावं जानाति वक्तुं देवो महेश्वरः
पापक्षयप्रतिनिधिर् नैतेभ्यो ऽस्त्य् अपरः क्वचित्
किष्किन्धातीर्थम् आख्यातं सर्वकामप्रदं नृणाम् सर्वपापप्रशमनं यत्र संनिहितो भवः
तस्य स्वरूपं वक्ष्यामि यत्नेन शृणु नारद पुरा दाशरथी रामो रावणं लोकरावणम्
किष्किन्धावासिभिः सार्धं जघान रणमूर्धनि सपुत्रं सबलं हत्वा सीताम् आदाय शत्रुहा
भ्रात्रा सौमित्रिणा सार्धं वानरैश् च महाबलैः विभीषणेन बलिना देवैः प्रत्यागतो नृपः
कृतस्वस्त्ययनः श्रीमान् पुष्पकेण विराजितः यद् आसीद् धनराजस्य कामगेनाशुगामिना
अयोध्याम् अगमन् सर्वे गच्छन् गङ्गाम् अपश्यत रामो विरामः शत्रूणां शरण्यः शरणार्थिनाम्
गौतमीं तु जगत्पुण्यां सर्वकामप्रदायिनीम् मनोनयनसंतापनिवारणपरायणाम्
तां दृष्ट्वा नृपतिः श्रीमान् गङ्गातीरम् अथाविशत् तां दृष्ट्वा प्राह नृपतिर् हर्षगद्गदया गिरा हरीन् सर्वान् अथामन्त्र्य हनुमत्प्रमुखान् मुने
अस्याः प्रभावाद् धरयो यो ऽसौ मम पिता प्रभुः सर्वपापविनिर्मुक्तस् ततो यातस् त्रिविष्टपम्
इयं जनित्री सकलस्य जन्तोर् भुक्तिप्रदा मुक्तिम् अथापि दद्यात् पापानि हन्याद् अपि दारुणानि कान्यानयास्त्य् अत्र नदी समाना
हतानि शश्वद् दुरितानि चैव अस्याः प्रभावाद् अरयः सखायः विभीषणो मैत्रम् उपैति नित्यं सीता च लब्धा हनुमांश् च बन्धुः