दशापराणि तीर्थानि तत्र सर्वार्थदानि च तत्र स्नानं च दानं च सहस्रफलदायकम्
यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः सर्वापत्तारकं होमम् अकारयद् अघान्तकम्
सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः
गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम्
कपिलतीर्थम् आख्यातं तद् एवाङ्गिरसं स्मृतम् तद् एवादित्यम् आख्यातं सैंहिकेयं तद् उच्यते
गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः
अङ्गिरोभ्यस् तदादित्यास् तपसे ऽङ्गिरसो ययुः सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत्
तत्रसुस् ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीम् इति
आदित्यान् अनुगत्वाथ वाचम् अङ्गिरसो ऽब्रुवन् भुवं गृह्णन्तु या दत्ता नेत्य् आदित्यास् तदाब्रुवन्
निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः स्वदत्तां परदत्तां वा यो हरेत वसुंधराम्
षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित्
पापम् अस्ति महारौद्रं न स्वीकुर्मः पुनस् तु ताम् एवं यदा स्वदत्ताया हरणे किं तदा भवेत्
तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् तथेत्य् उक्ते तु ते देवाः कपिलां शुभलक्षणाम्
गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस् तिष्ठति मूर्तिमान्
कपिलासंगमं तच् च सर्वाघौघविनाशनम् तत्राभवद् दानतोयाद् आपगा कपिलाभिधा
सस्यवत्या अपि भुवो दानाद् गोदानम् उत्तमम् लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः
यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम् पुण्यदं तत्र तीर्थानां शतम् उक्तं मनीषिभिः
तत्र स्नानेन दानेन भूमिदानफलं लभेत् संगता गङ्गया तच् च कपिलासंगमं विदुः
शङ्खह्रदं नाम तीर्थं यत्र शङ्खगदाधरः तत्र स्नात्वा च तं दृष्ट्वा मुच्यते भवबन्धनात्
तत्रेदं वृत्तम् आख्यास्ये भुक्तिमुक्तिप्रदायकम् पुरा कृतयुगस्यादौ ब्रह्मणः सामगायिनः
ब्रह्माण्डागारसंभूता राक्षसा बहुरूपिणः ब्रह्माणं खादितुं प्राप्ता बलोन्मत्ता धृतायुधाः
तदाहम् अब्रवं विष्णुं रक्षणाय जगद्गुरुम् स विष्णुस् तानि रक्षांसि हन्तुं चक्रेण चोद्यतः
छित्त्वा चक्रेण रक्षांसि शङ्खम् आपूरयत् तदा निष्कण्टकं तलं कृत्वा स्वर्गं निर्वैरम् एव च
ततो हर्षप्रकर्षेण शङ्खम् आपूरयद् धरिः ततो रक्षांसि सर्वाणि ह्य् अनीनशुर् अशेषतः
यत्रैतद् वृत्तम् अखिलं विष्णुशङ्खप्रभावतः शङ्खतीर्थं तु तत् प्रोक्तं सर्वक्षेमकरं नृणाम्
सर्वाभीष्टप्रदं पुण्यं स्मरणान् मङ्गलप्रदम् आयुरारोग्यजननं लक्ष्मीपुत्रप्रवर्धनम्
स्मरणात् पठनाद् वापि सर्वकामान् अवाप्नुयात् तीर्थानाम् अयुतं तत्र सर्वपापनुदं मुने
तीर्थान्य् अयुतसंख्यानि सर्वपापहराणि च येषां प्रभावं जानाति वक्तुं देवो महेश्वरः
पापक्षयप्रतिनिधिर् नैतेभ्यो ऽस्त्य् अपरः क्वचित्
किष्किन्धातीर्थम् आख्यातं सर्वकामप्रदं नृणाम् सर्वपापप्रशमनं यत्र संनिहितो भवः