सहस्रकुण्डम् आख्यातं तीर्थं वेदविदो विदुः यस्य स्मरणमात्रेण सुखी संपद्यते नरः
पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः
वैदेहीं च समासाद्य रामो वचनम् अब्रवीत् पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते
अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ एहि वैदेहि शुद्धासि अङ्कम् आरोढुम् अर्हसि
नेत्य् उवाच तदा श्रीमान् अङ्गदो हनुमांस् तथा अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः
तत्र शुद्धिम् अवाप्याथ पुनर् भ्रातृषु मातृषु लौकिकेष्व् अपि पश्यत्सु ततः शुद्धा नृपात्मजा
अयोध्यायां सुपुण्ये ऽह्नि अङ्कम् आरोढुम् अर्हसि अस्याश् चरित्रविषये संदेहः कस्य जायते
लोकापवादस् तद् अपि निरस्यः स्वजनेषु हि तयोर् वाक्यम् अनादृत्य लक्ष्मणः सविभीषणः
रामश् च जाम्बवांश् चैव ताम् आह्वयन् नृपात्मजाम् स्वस्तीत्य् उक्ता देवताभी राज्ञो ऽङ्कं चारुरोह सा
मुदितास् ते ययुः शीघ्रं पुष्पकेण विराजता अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत्
मुदितास् ते ऽभवन् सर्वे सदा रामानुवर्तिनः ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम्
वाचं श्रुत्वा स तत्याज गुर्विणीं ताम् अयोनिजाम् मिथ्यापवादम् अपि हि न सहन्ते कुलोन्नताः
वाल्मीकेर् मुनिमुख्यस्य आश्रमस्य समीपतः तत्याज लक्ष्मणः सीताम् अदुष्टां रुदतीं रुदन्
नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् असौ तद् अकरोद् भिया ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः
रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः तत्रैवाजग्मतुर् उभौ रामपुत्रौ यशस्विनौ
लवः कुशश् च विख्यातौ नारदाव् इव गायकौ रामायणं समग्रं तद् गन्धर्वाव् इव सुस्वरौ
रामस्य चरितं सर्वं गायमानौ समीयतुः यज्ञवाटं राजसुतौ हेतुभिर् लक्षितौ तदा
रामपुत्राव् उभौ शूरौ वैदेह्यास् तनयाव् इति ताव् आनीय ततः पुत्राव् अभिषिच्य यथाक्रमम्
अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः संसारदुःखखिन्नानाम् अगतीनां शरीरिणाम्
पुत्रालिङ्गनम् एवात्र परं विश्रान्तिकारणम् मुहुर् आलिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति
किम् अप्य् अन्तर् ध्यायति च निःश्वसत्य् अपि वै मुहुः एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः
सुग्रीवो हनुमांश् चैव अङ्गदो जाम्बवांस् तथा अन्ये च वानराः सर्वे विभीषणपुरःसराः
ते चागत्य नृपं प्राप्ताः सिंहासनम् उपस्थितम् सीताम् अदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः
क्व गतायोनिजा माता एको रामो ऽत्र दृश्यते रामेण सा परित्यक्ता इत्य् ऊचुर् द्वारपालकाः
पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः
उत्पन्नैर् लौकिकैर् वाक्यै रामस् त्यजति तां प्रियाम् मरिष्याव इति ह्य् उक्त्वा गौतमीं पुनर् ईयतुः
रामस् तौ पृष्ठतो ऽभ्येत्य अयोध्यावासिभिः सह आगत्य गौतमीं तत्र ऽकुर्वंस् ते परमं तपः
स्मारं स्मारं निश्वसन्तस् तां सीतां लोकमातरम् संसारास्थाविरहिता गौतमीसेवनोत्सुकाः
लोकत्रयपतिः साक्षाद् रामो ऽनुजसमन्वितः प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः
परितापं जहौ सर्वं सहस्रपरिवारितः यत्र चासीत् स वृत्तान्तः सहस्रकुण्डम् उच्यते