नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते
ततः पुत्रार्थम् अकरोद् यज्ञं राजा महामतिः ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम्
गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः पुत्रं देहीति राजा वै भवं प्राह स भार्यया
भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद
चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता
किम् अलभ्यं भगवति प्रसन्ने त्रिपुरान्तके यं नित्यम् अनुवर्तन्ते हरिब्रह्मादयः सुराः
प्राप्तपुत्रश् च नृपतिस् तीर्थश्रैष्ठ्यम् अयाचत महापापमहारोगमहाव्यसनिनां नृणाम्
नानाविपद्गणार्तानां सर्वाभिमतलब्धये प्रादाज् ज्यैष्ठ्यं भवश् चापि भावतीर्थं तद् उच्यते
तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः
महिमा गौतमीतीरे भावतीर्थं तद् उच्यते तत्र सप्तति तीर्थानि पुण्यान्य् अखिलदानि च
सहस्रकुण्डम् आख्यातं तीर्थं वेदविदो विदुः यस्य स्मरणमात्रेण सुखी संपद्यते नरः
पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः
वैदेहीं च समासाद्य रामो वचनम् अब्रवीत् पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते
अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ एहि वैदेहि शुद्धासि अङ्कम् आरोढुम् अर्हसि
नेत्य् उवाच तदा श्रीमान् अङ्गदो हनुमांस् तथा अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः
तत्र शुद्धिम् अवाप्याथ पुनर् भ्रातृषु मातृषु लौकिकेष्व् अपि पश्यत्सु ततः शुद्धा नृपात्मजा
अयोध्यायां सुपुण्ये ऽह्नि अङ्कम् आरोढुम् अर्हसि अस्याश् चरित्रविषये संदेहः कस्य जायते
लोकापवादस् तद् अपि निरस्यः स्वजनेषु हि तयोर् वाक्यम् अनादृत्य लक्ष्मणः सविभीषणः
रामश् च जाम्बवांश् चैव ताम् आह्वयन् नृपात्मजाम् स्वस्तीत्य् उक्ता देवताभी राज्ञो ऽङ्कं चारुरोह सा
मुदितास् ते ययुः शीघ्रं पुष्पकेण विराजता अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत्
मुदितास् ते ऽभवन् सर्वे सदा रामानुवर्तिनः ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम्
वाचं श्रुत्वा स तत्याज गुर्विणीं ताम् अयोनिजाम् मिथ्यापवादम् अपि हि न सहन्ते कुलोन्नताः
वाल्मीकेर् मुनिमुख्यस्य आश्रमस्य समीपतः तत्याज लक्ष्मणः सीताम् अदुष्टां रुदतीं रुदन्
नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् असौ तद् अकरोद् भिया ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः
रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः तत्रैवाजग्मतुर् उभौ रामपुत्रौ यशस्विनौ
लवः कुशश् च विख्यातौ नारदाव् इव गायकौ रामायणं समग्रं तद् गन्धर्वाव् इव सुस्वरौ
रामस्य चरितं सर्वं गायमानौ समीयतुः यज्ञवाटं राजसुतौ हेतुभिर् लक्षितौ तदा
रामपुत्राव् उभौ शूरौ वैदेह्यास् तनयाव् इति ताव् आनीय ततः पुत्राव् अभिषिच्य यथाक्रमम्
अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः संसारदुःखखिन्नानाम् अगतीनां शरीरिणाम्
पुत्रालिङ्गनम् एवात्र परं विश्रान्तिकारणम् मुहुर् आलिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति