उपविष्टं सुविश्रान्तं पूजितं च यथाविधि पर्यपृच्छद् दैत्यगुरुस् तदागमनकारणम्
गृहागतस्य विमुखाः शत्रवो ऽप्य् उत्तमा नहि तस्मै स विस्तरेणाह भार्याहरणम् आदितः
बृहस्पतेस् तदा वाक्यं श्रुत्वा कोपान्वितः कविः अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद अतिक्रमम् इमं श्रुत्वा कोपात् कविर् अथाब्रवीत्
तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे यदानये प्रियां भ्रातस् तव भार्यां परार्दिताम्
ताम् आनीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर
एवम् उक्त्वा स जीवेन दैत्याचार्यो जगाम ह शिवम् आराध्य यत्नेन परं सामर्थ्यम् आप्तवान्
वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात् शिवप्रसादात् किं नाम देहिनाम् इह दुर्लभम्
जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः
यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् कुष्ठी भूयास् ततश् चन्द्रं शशापैवं रुषा कविः
कविशापप्रदग्धो ऽभूत् तदैव मृगलाञ्छनः प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः
तत्याज तां स चन्द्रो ऽपि तां तारां जगृहे कविः शुक्रो ऽपि देवान् आहूय ऋषीन् पितृगणांस् तथा
नदीर् नदांश् च विविधान् ओषधीश् च पतिव्रताः ततः संप्रष्टुम् आरेभे तारावृत्तविनिष्क्रयम्
ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस् त्व् इयम् स्नानं करोतु जीवेन तारा पूता भविष्यति
रहस्यम् एतत् परमं न कथ्यं यस्य कस्यचित् सर्वास्व् अपि दशास्व् एह शरणं गौतमी नृणाम्
तथाकरोच् चैव तारा भर्त्रा स्नानं यथाविधि पुष्पवृष्टिर् अभूत् तत्र जयशब्दो व्यवर्तत
पुनर् वै देवा अददुः पुनर् मनुष्या उत राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर् ददुः
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम्
बृहस्पतेश् च शुक्रस्य तारायाश् च विशेषतः परमानन्दम् आपन्नो गुरुर् गङ्गाम् अभाषत
त्वं गौतमि सदा पूज्या सर्वेषाम् अपि मुक्तिदा विशेषतस् तु सिंहस्थे मयि त्रैलोक्यपावनी
भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता यानि कानि च तीर्थानि स्वर्गमृत्युरसातले त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थिते ऽम्बिके
धन्यं यशस्यम् आयुष्यम् आरोग्यश्रीविवर्धनम् सौभाग्यैश्वर्यजननं तीर्थम् आनन्दनामकम्
तत्र पञ्च सहस्राणि तीर्थान्य् आह स गौतमः स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा
शिवस्यात्र निविष्टस्य नन्दी गङ्गातटे ऽनिशम् साक्षाच् चरत्य् असौ धर्मस् तस्मान् नन्दीतटं स्मृतम् आनन्दम् अपि तत् तीर्थं सर्वानन्दविवर्धनात्
भावतीर्थम् इति प्रोक्तं यत्र साक्षाद् भवः स्थितः अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः
तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम् सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरंधरः
प्राचीनबर्हिर् आख्यातः सर्वधर्मेषु पारगः तिस्रः कोट्यो ऽर्धकोटिश् च वर्षाणां राज्य आस्थितः
तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः भवेयं प्रियया वापि पुत्रैर् वा प्रियवस्तुभिः
वियुज्येयं ततो राज्यं त्यक्ष्ये ऽहं नात्र संशयः विवेकिनां कुलीनानाम् इदम् एवोचितं नृणाम्
स्थीयते विजने क्वापि विरक्तैर् विभवक्षये तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित्