कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः
दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिर् उदारधीः शशाप कोपाच् चाक्षिप्य वाग्भिर् विप्रियकारिभिः
पराभिभूताम् आलोक्य कान्तां कः सोढुम् ईश्वरः युयुधे तेन जीवो ऽपि देवश् चन्द्रमसा रुषा
न शापैर् हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः बृहस्पतिप्रणीतैश् च न मन्त्रैर् हन्यते शशी
तदा चन्द्रस् तु तां तारां नीत्वा संस्थाप्य मन्दिरे बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः
न जीयेत तदा देवैर् न कोपैः शापमन्त्रकैः न राजभिर् न ऋषिभिर् न साम्ना भेददण्डनैः
यदा भार्यां न लेभे ऽसौ गुरुः सर्वप्रयत्नतः सर्वोपायक्षये जीवस् तदा नीतिम् अथास्मरत्
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः स्वार्थम् उद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता
साध्यं केनाप्य् उपायेन जानद्भिः पुरुषैः फलम् वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः
एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत् तम् आगतं कविर् ज्ञात्वा संमानेनाभ्यनन्दयत्
उपविष्टं सुविश्रान्तं पूजितं च यथाविधि पर्यपृच्छद् दैत्यगुरुस् तदागमनकारणम्
गृहागतस्य विमुखाः शत्रवो ऽप्य् उत्तमा नहि तस्मै स विस्तरेणाह भार्याहरणम् आदितः
बृहस्पतेस् तदा वाक्यं श्रुत्वा कोपान्वितः कविः अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद अतिक्रमम् इमं श्रुत्वा कोपात् कविर् अथाब्रवीत्
तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे यदानये प्रियां भ्रातस् तव भार्यां परार्दिताम्
ताम् आनीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम् पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर
एवम् उक्त्वा स जीवेन दैत्याचार्यो जगाम ह शिवम् आराध्य यत्नेन परं सामर्थ्यम् आप्तवान्
वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात् शिवप्रसादात् किं नाम देहिनाम् इह दुर्लभम्
जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः
यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम् कुष्ठी भूयास् ततश् चन्द्रं शशापैवं रुषा कविः
कविशापप्रदग्धो ऽभूत् तदैव मृगलाञ्छनः प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः
तत्याज तां स चन्द्रो ऽपि तां तारां जगृहे कविः शुक्रो ऽपि देवान् आहूय ऋषीन् पितृगणांस् तथा
नदीर् नदांश् च विविधान् ओषधीश् च पतिव्रताः ततः संप्रष्टुम् आरेभे तारावृत्तविनिष्क्रयम्
ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस् त्व् इयम् स्नानं करोतु जीवेन तारा पूता भविष्यति
रहस्यम् एतत् परमं न कथ्यं यस्य कस्यचित् सर्वास्व् अपि दशास्व् एह शरणं गौतमी नृणाम्
तथाकरोच् चैव तारा भर्त्रा स्नानं यथाविधि पुष्पवृष्टिर् अभूत् तत्र जयशब्दो व्यवर्तत
पुनर् वै देवा अददुः पुनर् मनुष्या उत राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर् ददुः
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने
पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम्
बृहस्पतेश् च शुक्रस्य तारायाश् च विशेषतः परमानन्दम् आपन्नो गुरुर् गङ्गाम् अभाषत
त्वं गौतमि सदा पूज्या सर्वेषाम् अपि मुक्तिदा विशेषतस् तु सिंहस्थे मयि त्रैलोक्यपावनी