ताञ् जित्वा पुनर् अप्य् आगाद् देवलोकं सुपूजितम् स चागत्य महाराजो वसिष्ठाच् च पुरोधसः
उर्वश्या गमनं श्रुत्वा ततो दुःखसमन्वितः न जुहोति न चाश्नाति न शृणोति न पश्यति
एतस्मिन्न् अन्तरे तत्र मृतावस्थं नृपोत्तमम् बोधयाम् आस वाक्यैश् च हेतुभूतैः पुरोहितः
सा मृताद्य महाराज मा व्यथस्व महामते एवं स्थितं तु मा त्वां वै अशिवाः स्पृश्युर् आशुगाः
न वै स्त्रैणानि जानीषे हृदयानि महामते शालावृकाणां यादॄंशि तस्मात् त्वं भूप मा शुचः
को नाम लोके राजेन्द्र कामिनीभिर् न वञ्चितः वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता
इति स्वाभाविकं यासां ताः कथं सुखहेतवः कालेन को न निहतः को ऽर्थी गौरवम् आगतः
श्रिया न भ्रामितः को वा योषिद्भिः को न खण्डितः स्वप्नमायोपमा राजन् मदविप्लुतचेतसः
सुखाय योषितः कस्य ज्ञात्वैतद् विज्वरो भव विहाय शंकरं विष्णुं गौतमीं वा महामते दुःखिनां शरणं नान्यद् विद्यते भुवनत्रये
एतच् छ्रुत्वा ततो राजा दुःखं संहृत्य यत्नतः गौतम्या मध्यसंस्थो ऽसाव् ऐलः परमधार्मिकः
तत्र चाराधयाम् आस शिवं देवं जनार्दनम् ब्रह्माणं भास्करं गङ्गां देवान् अन्यांश् च यत्नतः
यो विपन्नो न तीर्थानि देवताश् च न सेवते स कालवशगो जन्तुः कां दशाम् अनुयास्यति
तदीश्वरैकशरणो गौतमीसेवनोत्सुकः परां श्रद्धाम् उपगतः संसारास्थापराङ्मुखः
ईजे यज्ञांश् च बहुलान् ऋत्विग्भिर् बहुदक्षिणान् वेदद्वीपो ऽभवत् तेन यज्ञद्वीपः स उच्यते
पौर्णमास्यां तु शर्वर्यां तत्रायाति सदोर्वशी तस्य दीपस्य यः कुर्यात् प्रदक्षिणम् अथो नरः
प्रदक्षिणीकृता तेन पृथिवी सागराम्बरा वेदानां स्मरणं तत्र यज्ञानां स्मरणं तथा
सुकृती तत्र यः कुर्याद् वेदयज्ञफलं लभेत् ऐलतीर्थं तु तज् ज्ञेयं तद् एव च पुरूरवम्
वासिष्ठं चापि तत् तु स्यान् निम्नभेदं तद् उच्यते ऐले राज्ञि न किंचित् स्यान् निम्नं सर्वेषु कर्मसु
यद् एतन् निम्नम् उर्वश्यां सर्वभावेन वर्तनम् तच् चापि भेदितं निम्नं वसिष्ठेन च गङ्गया
निम्नभेदम् अभूत् तेन दृष्टादृष्टेष्टसिद्धिदम् तत्र सप्त शतान्य् आहुस् तीर्थानि गुणवन्ति च
तेषु स्नानं च दानं च सर्वक्रतुफलप्रदम् स्नानं कृत्वा निम्नभेदे यः पश्यति सुरान् इमान्
इह चामुत्र वा निम्नं न किंचित् तस्य विद्यते सर्वोन्नतिम् अवाप्यासौ मोदते दिवि शक्रवत्
नन्दीतटम् इति ख्यातं तीर्थं वेदविदो विदुः तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद
अत्रिपुत्रो महातेजाश् चन्द्रमा इति विश्रुतः सर्वान् वेदांश् च विधिवद् धनुर्वेदं यथाविधि
अधीत्य जीवात् सर्वाश् च विद्याश् चान्या महामते गुरुपूजां करोमीति जीवम् आह स चन्द्रमाः बृहस्पतिस् तदा प्राह चन्द्रं शिष्यं मुदान्वितः
मम प्रिया तु जानीते तारा रतिसमप्रभा
प्रष्टुं तां च तदा प्रायाद् अन्तर् वेश्म स चन्द्रमाः तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः
स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा तावद् धैर्यनिधिर् ज्ञानी मतिमान् विजितेन्द्रियः
यावन् न कामिनीनेत्रवागुराभिर् निबध्यते विशेषतो रहःसंस्थां कामिनीम् आयतेक्षणाम्
विलोक्य न मनो याति कस्य कामेषु वश्यताम् अत एवान्यपुरुषदर्शनं न कदाचन