पैशाचं तीर्थम् आख्यातं गङ्गाया उत्तरे तटे पिशाचत्वात् पुरा विप्रो मुक्तिम् आप महामते
सुयवस्यात्मजो लोके जीगर्तिर् इति विश्रुतः कुटुम्बभारदुःखार्तो दुर्भिक्षेण तु पीडितः
मध्यमं तु शुनःशेपं पुत्रं ब्रह्मविदां वरम् विक्रीतवान् क्षत्रियाय वधाय बहुलैर् धनैः
किं नामापद्गतः पापं नाचरत्य् अपि पण्डितः शमितृत्वे धनं चापि जगृहे बहुलं मुनिः
विदारणार्थं च धनं जगृहे ब्राह्मणाधमः ततो ऽप्रतिसमाधेयमहारोगनिपीडितः
स मृतः कालपर्याये नरकेष्व् अथ पातितः भोगाद् ऋते न क्षयो ऽस्ति प्राक्तनानाम् इहांहसाम्
किंकरैर् यमवाक्येन बहुयोन्यन्तरं गतः ततः पिशाचो ह्य् अभवद् दारुणो दारुणाकृतिः
शुष्ककाष्ठेष्व् अथारण्ये निर्जले निर्जने तथा ग्रीष्मे ग्रीष्मदवव्याप्ते क्षिप्यते यमकिंकरैः
कन्यापुत्रमहीवाजिगवां विक्रयकारिणः नरकान् न निवर्तन्ते यावद् आभूतसंप्लवम्
स्वकृताघविपाकेन दारुणैर् यमकिंकरैः संघाते पच्यमानो ऽसौ रुरोदोच्चैः कृतं स्मरन्
पथि गच्छन् कदाचित् स जीगर्तेर् मध्यमः सुतः शुश्राव रुदतो वाणीं पिशाचस्य मुहुर् मुहुः
पुत्रक्रेतुर् ब्रह्महन्तुर् जीगर्तेस् तु पितुस् तदा पापिनः पुत्रविक्रेतुर् ब्रह्महन्तुः पितुश् च ताम्
शुनःशेपस् तदोवाच को भवान् अतिदुःखितः जीगर्तिर् अब्रवीद् दुःखाच् छुनःशेपपिता ह्य् अहम्
पापीयसीं क्रियां कृत्वा योनिं प्राप्तो ऽस्मि दारुणाम् नरकेष्व् अथ पक्वश् च पुनः प्राप्तो ऽन्तरालकम् ये ये दुष्कृतकर्माणस् तेषां तेषाम् इयं गतिः
जीगर्तिपुत्रस् तम् उवाच दुःखात् सो ऽहं सुतस् ते मम दोषेण तात विक्रीत्वा मां नरकान् एवम् आप्तस् ततः करिष्ये स्वर्गतं त्वाम् इदानीम्
एवं प्रतिज्ञाय स गाधिपुत्र पुत्रत्वम् आप्तो ऽथ मुनिप्रवीरः गङ्गाम् अभिध्याय पितुश् च लोकान् अनुत्तमान् ईहमानो जगाम
अशेषदुःखानलधूपितानां निमज्जतां मोहमहासमुद्रे शरीरिणां नान्यद् अहो त्रिलोक्याम् आलम्बनं विष्णुपदीं विहाय
एवं विनिश्चित्य मुनिर् महात्मा समुद्दिधीर्षुः पितरं स दुर्गतेः शुचिस् ततो गौतमीम् आशु गत्वा तत्र स्नात्वा संस्मरञ् छंभुविष्णू
ददौ जलं प्रेतरूपाय पित्रे पिशाचरूपाय सुदुःखिताय तद्दानमात्रेण तदैव पूतो जीगर्तिर् आवाप वपुः सुपुण्यम्
विमानयुक्तः सुरसंघजुष्टं विष्णोः पदं प्राप सुतप्रभावात् गङ्गाप्रभावाच् च हरेश् च शंभोर् विधातुर् अर्कायुततुल्यतेजाः
ततः प्रभृत्य् एतद् अतिप्रसिद्धं पैशाचनाशं च महागदं च महान्ति पापानि च नाशम् आशु प्रयान्ति यस्य स्मरणेन पुंसाम्
तीर्थस्य चेदं गदितं तवाद्य माहात्म्यम् एतत् त्रिशतानि यत्र तीर्थान्य् अथान्यानि भवन्ति भुक्ति मुक्तिप्रदायीनि किम् अन्यद् अत्र
सर्वसिद्धिदम् आख्यातम् इत्याद्य् अत्र शतत्रयम् तीर्थानां मुनिजुष्टानां स्मरणाद् अप्य् अभीष्टदम्
निम्नभेदम् इति ख्यातं सर्वपापप्रणाशनम् गङ्गाया उत्तरे पारे तीर्थं त्रैलोक्यविश्रुतम्
यस्य संस्मरणेनापि सर्वपापक्षयो भवेत् वेदद्वीपश् च तत्रैव दर्शनाद् वेदविद् भवेत्
उर्वशीं चकमे राजा ऐलः परमधार्मिकः को न मोहम् उपायाति विलोक्य मदिरेक्षणाम्
सा प्रायाद् यत्र राजासौ घृतं स्तोकं समश्नुते आनग्नदर्शनात् कृत्वा तस्याः कालावधिं नृपः
तां स्वीचकार ललनां यूनां रम्यां नवां नवाम् सुप्तायां शयने तस्यां समुत्तस्थौ पुरूरवाः
विलोक्य तं विवसनं तदैवासौ विनिर्गता विद्युच्चञ्चलचित्तानां क्व स्थैर्यं ननु योषिताम्
ईक्षां चक्रे स शर्वर्यां विवस्त्रो विस्मितो महान् एतस्मिन्न् अन्तरे राजा युद्धायागाद् रिपून् प्रति