सुप्रसिद्धं जगत्य् एतत् सर्वलोकेषु पूजितम् तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत
मनोग्लानिनिवृत्तिश् च जायते च महत् सुखम् पुनर् अप्य् आह सा वाणी काण्वे ऽस्मिंस् तीर्थ उत्तमे
अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः लोकत्रयाश्रयाशेषतीर्थेभ्यो ऽपि महाफलम्
स्नानदानादिकं किंचिद् भक्त्या कुर्वन् समाहितः फलं प्राप्स्यस्य् अशेषेण सर्वं कोटिगुणं मुने
यत् किंचित् क्रियते चात्र स्नानदानादिकं नरैः सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः
यत्रैतद् वृत्तम् आग्नेयं काण्वं पौत्रं हिरण्यकम् वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः
कोटितीर्थस्य माहात्म्यम् अत्र वक्तुं न शक्यते वाचस्पतिप्रभृतिभिर् अथवान्यैः सुरैर् अपि
यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत्
कोटितीर्थे द्विजाग्र्याय गाम् एकां यः प्रयच्छति तस्य तीर्थस्य माहात्म्याद् गोकोटिफलम् अश्नुते
तस्मिंस् तीर्थे शुचिर् भूत्वा भूमिदानं करोति यः श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम्
सर्वत्र गौतमीतीरे पितॄणां दानम् उत्तमम् विशेषतः कोटितीर्थे तद् अनन्तफलप्रदम् अत्रैकन्यूनपञ्चाशत् तीर्थानि मुनयो विदुः
नारसिंहम् इति ख्यातं गङ्गाया उत्तरे तटे तस्यानुभावं वक्ष्यामि सर्वरक्षाविधायकम्
हिरण्यकशिपुः पूर्वम् अभवद् बलिनां वरः तपसा विक्रमेणापि देवानाम् अपराजितः
हरिभक्तात्मजद्वेषकलुषीकृतमानसः आविर्भूय सभास्तम्भाद् विश्वात्मत्वं प्रदर्शयन्
तं हत्वा नरसिंहस् तत्सैन्यम् अद्रावयत् तदा सर्वान् हत्वा महादैत्यान् क्रमेणाजौ महामृगः
रसातलस्थाञ् शत्रूंश् च जित्वा स्वर्लोकम् ईयिवान् तत्र जित्वा भुवं गत्वा दैत्यान् हत्वा नगस्थितान्
समुद्रस्थान् नदीसंस्थान् ग्रामस्थान् वनवासिनः नानारूपधरान् दैत्यान् निजघान मृगाकृतिः
आकाशगान् वायुसंस्थाञ् ज्योतिर्लोकम् उपागतान् वज्रपाताधिकनखः समुद्धूतमहासटः
दैत्यगर्भस्राविगर्जी निर्जिताशेषराक्षसः महानादैर् वीक्षितैश् च प्रलयानलसंनिभैः
चपेटैर् अङ्गविक्षेपैर् असुरान् पर्यचूर्णयत् एवं हत्वा बहुविधान् गौतमीम् अगमद् धरिः
स्वपदाम्बुजसंभूतां मनोनयननन्दिनीम् तत्राम्बर्य इति ख्यातो दण्डकाधिपते रिपुः
देवानां दुर्जयो योद्धा बलेन महतावृतः तेनाभवन् महारौद्रं भीषणं लोमहर्षणम्
शस्त्रास्त्रवर्षणं युद्धं हरिणा दैत्यसूनुना निजघान हरिः श्रीमांस् तं रिपुं ह्य् उत्तरे तटे
गङ्गायां नारसिंहं तु तीर्थं त्रैलोक्यविश्रुतम् स्नानदानादिकं तत्र सर्वपापग्रहार्दनम्
सर्वरक्षाकरं नित्यं जरामरणवारणम् यथा सुराणां सर्वेषां न कोपि हरिणा समः
तीर्थानाम् अप्य् अशेषाणां तथा तत् तीर्थम् उत्तमम् तत्र तीर्थे नरः स्नात्वा कुर्यान् नृहरिपूजनम्
स्वर्गे मर्त्ये तले वापि तस्य किंचिन् न दुर्लभम् इत्याद्य् अष्टौ मुने तत्र महातीर्थानि नारद
पृथक् पृथक् तीर्थकोटिफलम् आहुर् मनीषिणः अश्रद्धयापि यन्नाम्नि स्मृते सर्वाघसंक्षयः
भवेत् साक्षान् नृसिंहो ऽसौ सर्वदा यत्र संस्थितः तत् तीर्थसेवासंजातं फलं कैर् इह वर्ण्यते
यथा न देवो नृहरेर् अधिकः क्वापि वर्तते तथा नृसिंहतीर्थेन समं तीर्थं न कुत्रचित्