भवेतां दिव्यरूपे वां गङ्गया संगते यदा तच्छापात् ते नदीरूपे तत्क्षणात् संबभूवतुः
अप्सरोयुगम् आख्यातं नदीद्वयम् अतो ऽभवत् ताभ्यां परस्परं चापि ताभ्यां गङ्गासुसंगमः
सर्वलोकेषु विख्यातो भुक्तिमुक्तिप्रदः शिवः तत्रास्ते दृष्ट एवासौ सर्वसिद्धिप्रदायकः
तत्र स्नात्वा तु तं दृष्ट्वा मुच्यते सर्वबन्धनात्
कोटितीर्थम् इति ख्यातं गङ्गाया दक्षिणे तटे यस्यानुस्मरणाद् एव सर्वपापैः प्रमुच्यते
यत्र कोटीश्वरो देवः सर्वं कोटिगुणं भवेत् कोटिद्वयं तत्र पूर्णं तीर्थानां शुभदायिनाम्
तत्र व्युष्टिं प्रवक्ष्यामि शृणु नारद तन्मनाः कण्वस्य तु सुतो ज्येष्ठो बाह्लीक इति विश्रुतः
काण्वश् चेति जनैः ख्यातो वेदवेदाङ्गपारगः इष्टीः पार्वायणानीर् याः सभार्यो वेदपारगः
कुर्वन्न् आस्ते स गौतम्यास् तीरस्थो लोकपूजितः प्रातःकाले सभार्यो ऽसौ जुह्वद् अग्नौ समाहितः
सर्वदास्ते कदाचित् तु हवनाय समुद्यतः एकाहुतिं स हुत्वा तु समिद्धे हव्यवाहने
आहुत्यन्तरदानाय हविर् द्रव्यं करे ऽग्रहीत् एतस्मिन्न् अन्तरे वह्निर् उपशान्तो ऽभवत् तदा
ततश् चिन्तापरः काण्वः कर्तव्यं किं भवेद् इति अन्तर् विचारयाम् आस विषादं परमं गतः
आहुत्योश् च द्वयोर् मध्य उपशान्तो हुताशनः अग्न्यन्तरम् उपादेयं वैदिकं लौकिकं तथा
क्व होष्यं स्याद् द्वितीयं तु आहुत्यन्तरम् एव च एवं मीमांसमाने तु दैवी वाग् अब्रवीत् तदा
अग्न्यन्तरं नैव ते ऽत्र उपादेयं भविष्यति यानि तत्र भविष्यन्ति शकलानि समीपतः
अर्धदग्धेषु काष्ठेषु विप्रराज प्रहूयताम् नेत्य् उवाच तदा काण्वः सैव वाग् अब्रवीत् पुनः
अग्नेः पुत्रो हिरण्यस् तु पिता पुत्रः स एव तु पुत्रे दत्तं प्रियायैव पितुः प्रीत्यै भविष्यति
पित्रे देयं सुते दद्यात् कोटिप्रीतिगुणं भवेत् दैवी वाग् अब्रवीद् एवं ततः सर्वे महर्षयः
निश्चित्य धर्मसर्वस्वं तथा चक्रुर् यथोदितम् एतज् ज्ञात्वा जगत्य् अत्र पुत्रे दत्तं पितुर् भवेत्
अपत्याद्युपकारेण पित्रोः प्रीतिर् यथा भवेत् तथा नान्येन केनापि जगत्य् एतद् धि विश्रुतम्
सुप्रसिद्धं जगत्य् एतत् सर्वलोकेषु पूजितम् तस्मिन् दत्ते भवेत् पुण्यं सर्वं कोटिगुणं सुत
मनोग्लानिनिवृत्तिश् च जायते च महत् सुखम् पुनर् अप्य् आह सा वाणी काण्वे ऽस्मिंस् तीर्थ उत्तमे
अभवत् तन् महत् तीर्थं काण्व पुण्यप्रभावतः लोकत्रयाश्रयाशेषतीर्थेभ्यो ऽपि महाफलम्
स्नानदानादिकं किंचिद् भक्त्या कुर्वन् समाहितः फलं प्राप्स्यस्य् अशेषेण सर्वं कोटिगुणं मुने
यत् किंचित् क्रियते चात्र स्नानदानादिकं नरैः सर्वं कोटिगुणं विद्यात् कोटितीर्थं ततो विदुः
यत्रैतद् वृत्तम् आग्नेयं काण्वं पौत्रं हिरण्यकम् वाणीसंज्ञं कोटितीर्थं कोटितीर्थफलं यतः
कोटितीर्थस्य माहात्म्यम् अत्र वक्तुं न शक्यते वाचस्पतिप्रभृतिभिर् अथवान्यैः सुरैर् अपि
यत्रानुष्ठीयमानं हि सर्वं कर्म यथा तथा गोदावर्याः प्रसादेन सर्वं कोटिगुणं भवेत्
कोटितीर्थे द्विजाग्र्याय गाम् एकां यः प्रयच्छति तस्य तीर्थस्य माहात्म्याद् गोकोटिफलम् अश्नुते
तस्मिंस् तीर्थे शुचिर् भूत्वा भूमिदानं करोति यः श्रद्धायुक्तेन मनसा स्यात् तत्कोटिगुणोत्तरम्